SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विशे० ॥१०॥ Osmaroo सै-परप्पञ्चायणओ भेओ मूअयराण वाऽभिहिओ। जं मूयं मइनाणं स-परप्पच्चायगं सुत्तं ॥ १७१ ॥ अन्यैस्तु कैश्चिदाचार्यैः स्व-परप्रत्यायनतो मति श्रुतयोर्भेदोऽभिहितः । कयोरिव ? इत्याह- मूके-तरयोरिव- यथा हि मूकः खमात्मानमेव प्रत्याययति प्रतीतिपथं नयति, न तु परम् , तत्प्रत्यायनहेतुवचनाभावात् ; इतरस्त्वमूकः स्वं परं च प्रत्याययति, वचनसद्भावात् । तथा च सति यथा मूक-मुखरयोर्भदः, एवं मति-श्रुतयोरपि, यद् यस्मात् परप्रत्यायनहेतुद्रव्याक्षराभावाद् मूकं मतिज्ञानम् , मुखरं तु श्रुतज्ञानम् , कुतः ?, स्व-परप्रत्यायकत्वात् - द्रव्याक्षरसद्भावेन परप्रत्यायकत्वस्याऽपि तत्र लभ्यमानत्वादिति भावः ॥ इति गाथार्थः ॥ १७१॥ एतदाचार्यो मति-श्रुतयोस्तुल्यताऽऽपादनेन किश्चिद् दूषयितुमाह सुयकारणं ति सदो सुयमिह सो य परबोहणं कुणइ । मइहेयवो वि हि परं बोहति कराइचिट्ठाओ ॥ १७२ ॥ इह तावद् भवन्तं पृच्छामः- हन्त ! शब्दः श्रुतमुच्यते, उपलक्षणत्वात् पुस्तकादिन्यस्ताऽक्षरविन्यासश्च श्रुतमभिधीयते ' सुयकारणं ति' श्रुतकारणत्वात् - कारणे कार्योपचारादिति भावः । स च शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च परबोधनं परप्रत्यायन करोतीत्येवं परतः श्रुतज्ञानं परप्रत्यायकमुच्यते, न तु स्वतः; इति तावद् भवतोऽभिप्रायः । एतच्च मतिज्ञानेनाऽपि समानम् । कुतः ? इत्याह- हि यस्माद् मतिहेतवोऽपि मतिजनका अपि करादिचेष्टाविशेषाः परं बोधयन्त्येव, तथाहि- अक्षरात्मकत्वात् किल शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च श्रुतस्य कारणम् , कर-शीर्षादिचेष्टास्तु अक्षररहितत्वात् किल मतिज्ञानस्य हेतवः- कर-वक्त्रसंयोगे हि कृते भुजिक्रियाविषया किल मतिरुत्पद्यते, शीर्षे च धृनिते निवृत्ति-प्रवृत्तिविषया सा समुपजायते, इत्येवं मतिहेतवः करादिचेष्टा अपि परमबोधिका एव ।। इति गाथार्थः ॥ १७२ ॥ यदि मतिहेतवोऽपि परं प्रबोधयन्ति, ततः किम् ? इत्याह न परप्पबोहयाइं जं दो वि सरूवओ मइ-सुयाइं । तकारणाई दोण्ह वि बोहेति तओ न भेओ सिं ॥१७॥ १ स्व-परप्रत्यायनतो भेदो मूक-तरयोरिवाऽभिहितः । यद् मूकं मतिज्ञानं स्व-परप्रत्यायकं श्रुतम् ॥ ११ ॥ २ श्रुतकारणमिति शरदः श्रुतमिह स च परबोधनं करोति । मतिहेतवोऽपि हि परं बोधयन्ति करादिचेष्टाः ॥ १७२ ॥ ३ न परमबोधके यत् दे अपि स्वरूपतो मति-श्रुते । तत्कारणानि द्वषोरपि बोधयन्ति ततो न भेदोऽनयोः ॥ १७ ॥ ॥१०४॥ STRETIRece For Personal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy