SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ बृहदृत्तिः । विशे० ॥१०॥ स्थाणु-पुरुषादिपर्यायविवेकाभावप्रसङ्गात् , श्रुतनिश्रितत्वस्य चाऽन्यथा समर्थितत्वादिति स्थितम् ।। इति गाथार्थः ॥ १६९ ॥ यद्यनक्षरा मतिर्न भवति, तर्हि ' लक्खणभेया हेऊफलभावओ' इत्यादिगाथायां प्रतिज्ञातोऽक्षरा-ऽनक्षरभेदाद् मति- श्रुतयो- भेदः कथं गमनीयः ? इत्याह उभयं भावक्खरओ अणक्खरं होज वंजणक्खरओ। मइनाणं सुत्तं पुण उभयं पि अणक्खरक्खरओ॥१७॥ इहाऽक्षरं तावद् द्विविधम्-द्रव्याक्षरम् , भावाक्षरं च । तत्र द्रव्याक्षरं पुस्तकादिन्यस्ताऽकारादिरूपम् , ताल्वादिकारणजन्यः शब्दो वा; एतच्च व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते । भावाक्षरं त्वन्तःस्फुरदकारादिवर्णज्ञानरूपम् । एवं च सति 'भावक्खरओ त्ति' भावाक्षरमाश्रित्य मतिज्ञानं भवेत् । कथंभूतम् ? इत्याह- 'उभयं ति' उभयरूपम्- अक्षरवत् , अनक्षरं चेत्यर्थः; मतिज्ञानभेदे ह्यवग्रहे भावाक्षरं नास्तीति तदनक्षरमुच्यते, ईहादिषु तु तद्भेदेषु तदस्तीति मतिज्ञानमक्षरवत् प्रतिपाद्यत इति भावः । 'अणक्खरं होज वंजणक्खरओ त्ति' व्यञ्जनाक्षरं द्रव्याक्षरमित्यनान्तरम् , तदाश्रित्य मतिज्ञानमनक्षरं भवेत् , न हि मतिज्ञाने पुस्तकादिन्यस्ताकारादिकं शब्दो वा व्यञ्जनाक्षरं विद्यते, तस्य द्रव्यश्रुतत्वेन रूढत्वात् , द्रव्यमतित्वेनाप्रसिद्धत्वादिति । 'सुत्तं पुणेत्यादि सूत्रं श्रुतज्ञानं, पुनरुभयमपि- द्रव्यश्रुतम् , भावश्रुतं चेत्यर्थः, प्रत्येकमनक्षरतः, अक्षरतश्च भवेत् । इदमुक्तं भवति ___"ऊँससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसार अणक्खरं छेलियाईअं" ॥१॥ इत्यादिवचनाद् द्रव्यश्रुतमनक्षरम् - पुस्तकादिन्यस्ताक्षररूपम् , शब्दरूपं च; तदेव साक्षर भावश्रुतमपि श्रुतानुसार्यकारादिवर्णविज्ञानात्मकत्वात् साक्षरम् , पुस्तकादिन्यस्ताकाराद्यक्षररहितत्वाच्छब्दाभावाच्च तदेवाऽनक्षरम् , पुस्तकादिन्यस्ताक्षरस्य शब्दस्य च द्रव्यश्रुतान्तःपातित्वेन भावभुतेऽसत्चाततदेवं मते वश्रुतस्य च साक्षरा-ऽनक्षरकृतो नास्ति विशेषः, प्रत्येकं द्वयोरप्यक्षरानक्षररूपत्वेनोक्तत्वात् । केवलं सामान्येन 'श्रुतं' इत्युक्ते तन्मध्ये द्रव्यश्रुतं लभ्यत इति कृत्वा तत्र द्रव्यश्रुतमाश्रित्य द्रव्याक्षरमस्ति, मतौ तु तन्नास्ति, तस्या द्रव्यमतित्वेनाऽरूढत्वादिति । एवमनयोर्द्रव्याक्षरापेक्षया साक्षरा-ऽनक्षरत्वकृतो भेदः ।। इति गाथार्थः ।। १७० ।। तदेवमक्षरे-तरभेदाद् मति-श्रुतयोर्भेदमभिधाय मृके तरभेदात् तमभिधित्सुराह १ गाथा ९७।२ उभयं भावाक्षरतोऽनक्षरं भवेद् व्यञ्जनाक्षरतः । मतिज्ञानं सूत्रं पुनरुभयमपि अनक्षरा-ऽक्षरतः ॥ १७ ॥ ३ उच्छ्वसितं निःश्वसितं निक्षिप्त कासितं च क्षुतं च । निःसिद्धितमनुस्वारमनक्षरं सेण्टितादिकम् ॥1॥ ॥१०३॥ Strolo For Pesos and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy