SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वृहदा विशे० ॥१०२॥ मस्यामानान्सनसम्म रेण भणितम् ?- मतिः स्वयमनक्षरैव, यस्त्विहाऽक्षरोपलम्भः स यदि श्रुतनिश्रितो नेष्यते, तर्हि कथमन्यथाऽसौ घटिष्यते ?। इति विस्मयभयाऽऽपूरितहृदयस्य परस्याऽयं प्रश्न इति भावः ॥ अत्रोच्यते- ननु भवानेव प्रष्टव्यो योऽसमीक्षितमित्थं प्रभाषते- योऽक्षरोपलम्भः स सर्वोऽपि श्रुतनिश्रयेति । अथ न ज्ञायते भवता, तर्हि वयमेव ब्रूमः, श्रूयताम्- 'जं सुयेत्यादि ' श्रुतं द्विविधम् - परोपदेशः, आगमग्रन्थश्च । व्यवहारकालात् पूर्व तेन श्रुतेन कृत उपकारः संस्काराधानरूपो यस्य तत् कृतश्रुतोपकारं, यज्ज्ञानमिदानीं तु व्यवहारकाले तस्य पूर्वप्रवृत्तस्य संस्काराधायकश्रुतस्याऽनपेक्षमेव प्रवर्तते तत् श्रुतनिश्रितमुच्यते, न त्वक्षराभिलापयुक्तत्वमात्रेणेति भावः ॥ इति गाथार्थः ॥ १६८ ॥ एतदेव भावयन्नाहपुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं । तं निस्सियमियरं पुण आणिस्सियं मइचउक्कं तं ॥ १६९ ॥ व्यवहारकालात् पूर्व यथोक्तरूपेण श्रुतेन परिकर्मिता- आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेर्यत् सांप्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तच्छुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम् । इतरत् पुनरश्रुतनिश्रितम् , तच्चौत्पत्तिक्यादिमतिचतुष्कं द्रष्टव्यम् , श्रुतसंस्कारानपेक्षया सहजत्वात् तस्य । अत्राह-ननु “ भैरनित्थरणसमत्था तिवम्गसुत्तत्थगहियपेयाला । उभओलोगफलबई विणयसमुत्था हवइ बुद्धी" ॥१॥ इत्यादिवचनात् तत्रापि मतिचतुष्के वैनयिकी मतिः श्रुतनिश्रिता समस्ति । सत्यम् , किन्तु सकृच्छूतनिश्रितत्वे सत्यपि बाहुल्यमङ्गीकृत्याऽश्रुतनिश्रितं तदुच्यत इत्यदोषः *। तस्माद् यदुक्तम्-'जं मइनाणमणक्खरमक्खरमियरंच सुयनाणं' इति । तदयुक्तम् , मतेरनक्षरत्वे . पूर्व श्रुतपरिकर्मितमतेर्यत सांप्रत धुतातातम् । तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ १९॥ २ भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतप्रमाणा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः ॥१॥ ३ गाथा १६२।। * इममेवाऽभिप्राय नन्यध्ययनेऽस्या एव गाथाया विवरणस्थले श्रीमन्मलयगिरिसूरिरप्याह-तधाहि-"नन्वश्रुतनिधिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्याखिवर्गसूत्रार्थगृहीतसारत्वम् , ततोऽश्रुतनिश्रितत्वे नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहतिसारत्वं संभवति । अत्रोच्यते-इह प्रायोवृत्तिमाश्रित्या:श्रुतनिश्रितत्वमुक्तम् , ततः स्वल्पश्रुतभावेऽपि न कश्चिदोषः" इति। ___ "इहातिगुरुकाय निर्वहत्वाद् भर इव भरस्तशिस्तरणे समर्धा भरनिस्तरणसमर्थाः, यो बर्गाखिवर्गा लोकरुया धर्मा-ऽर्थ-कामास्तदर्जनोपायप्रतिपादकं यत् सूर्य यश्च तदर्थस्ती त्रिवर्गसूत्राधी, तयोहीतं पेयालं प्रमाण सारो वा यया सा तथाविधा" इति नन्दिदीकायां व्याख्यातोऽस्या अर्थः ॥ १०२॥ Jin Education For Personal Private Use Only www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy