________________
विशे०
॥१०१॥
Jain Educationa Internat
इकाले विजइ सुयं तो जुगवं मइ सुअवओगा ते । अह नेवं एगयरं पवज्जओ जुज्जए न सुयं ॥ १६६॥ स्थाणु-पुरुषादिपर्यायविवेकलक्षणे मतिकालेऽपि यदि श्रुतव्यापार- इष्यते, ततो युगपदेव मति-श्रुतोपयोग ते तव प्रसज्येते, न चैतद्युक्तम्, समकालं ज्ञानद्वयोपयोगस्य निषिद्धत्वात् । अथैतदोषभयाद् नैवमुपयोगद्वयं युगपदभ्युपगम्यते, ततरं प्रतिपद्यमानस्य स्थाणु-पुरुषादिपर्यायविवेककाले मतिज्ञानं श्रुतज्ञानं वेच्छतो भवत इत्यर्थः किम् ? इत्याह- ' जुज्जए न सुयं ति ' श्रुतमिह प्रतिपत्तुं न युज्यते, किन्तु मतिज्ञानमेव, इदमुक्तं भवति- “ सावकाशा नवकाशयोरनवकाशो विधिर्बलवान् " इति न्यायादन्यत्रानवकाशं मतिज्ञानमेवैकं तवैकतरं प्रतिपद्यमानस्येह प्रतिपत्तुं युज्यते न तु श्रुतम् तस्याऽन्यत्र श्रुतानुसारिण्याचारादिज्ञानविशेषे सावकाशत्वात् । एवं च सति स्थाणु- पुरुषादिपर्यायविवेको मतेरेव, न तु श्रुतात् स चाडक्षराभिलापसमनुगत एव इति नैकान्तेन मतिज्ञानमनक्षरमिति भावः ॥ इति गाथार्थः ॥ १६६ ॥
किश्ञ्च, अक्षरानुगतत्वमात्रमुपलभ्य स्थाणु-पुरुषादिपर्यायविवेको भवताश्रुतनिश्रित उक्तः, एवं चातिप्रसङ्गः प्राप्नोतीति दर्शयतिजैइ सुयनिस्सियमक्खर मणुसरओ तेण मइचउक्कं पि । सुयनिस्सियमावन्नं तुह तं पि जमक्खरप्पभवं ॥ १६७॥ यदि स्थाणु- पुरुषादिपर्यायविवेकविधानेनाऽक्षरमनुसरतः प्रमातुर्ज्ञानं श्रुतनिश्रितं भवता मोच्यते, तेन तत्पत्तिक्यादिमतिचतुष्कमपि तव श्रुतनिश्रितमापन्नम् यस्मात् तदप्यक्षरप्रभवं वर्णाऽऽलिङ्गितमित्यर्थः- तदपि हि नेहादिविरहेण जायते, ईहादयश्च न वर्णाभिलापमन्तरेण संभवन्ति । तस्माद् मतिचतुष्कमपि त्वदभिप्रायेण श्रुतनिश्रितमायातम्, न चैतदस्ति, आगमेऽश्रुतनिश्रितत्वेन तस्याSभिधानात् । तस्माद् देवानांप्रियेणाज्यापि श्रुतनिश्रितस्य स्वरूपमेव नाऽवगम्यते, तत् किं वयं ब्रूमः १ ।। इति गाथार्थः ॥ १६७ ॥ तदेवं श्रुतनितिवचनश्रवणमात्राद् विभ्रान्तस्तत्स्वरूपमजानानः परो युक्तिभिर्निराकृतोऽपि विलक्षीभूतः प्राहजैइ तं सुरण न तओ जाणइ सुयनिस्सियं कहं भणियं ? । जं सुयकओवयारं पुव्वि इण्हि तयणवेक्खं ॥ १६८ ॥ यदि तं स्थाणु-पुरुषादिपर्यायसंघातं श्रुतेन न जानाति सकोऽसौ ज्ञानी, तर्हि श्रुतनिश्रितमेवावग्रहादिकं सूत्रे कथं केन प्रका
१ मतिकालेऽपि यदि श्रुतं ततो युगपद् मति श्रुतोपयोगी ते । अथ नैवमेकतरं प्रपद्यमानस्य युज्यते न श्रुतम् ॥ १६६ ॥
२ यदि श्रुतनिश्रितमक्षरमनुसरतस्तेन मतिचतुष्कमपि श्रुतनिश्रितमापन्नं तव तदपि यदक्षरप्रभवम् ॥ १६७ ॥
३. यदि तत् श्रुतेन न सको जानाति श्रुतनिधितं कथं भणितम् ? यत् श्रुतकृतोपचारं पूर्वमिदानीं तदनपेक्षम् ॥ १६८ ॥
For Personal and Private Use Only
०००००००
बृहद्वत्तिः ।
॥१०१॥
www.jainelibrary.org