SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ विशे० ॥१००॥ Jain Educationa International |दिके वस्तुनि ईहादयो न वर्तेरन् । ततः किम् ? इत्युच्यते तस्यां मतावनक्षरत्वेन स्थाण्वादिविकल्पाभावात् 'स्थाणुरयं पुरुषो ' इत्यादिपर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकादिना परिच्छेदो न स्यात्, तथाहि यदनक्षरं ज्ञानं न तत्र स्था- पुरुषपर्यायादिविवेक:, यथाऽवग्रहे तथा चेहादयः, तस्मात् तेष्वपि नासौ प्राप्नोति ।। इति गाथार्थः ।। १६३ ।। अथ विभ्रान्तस्य परस्योत्तरमाह - सुनिस्सियवयणाओ अह सो सुयओ मओ न बुद्धीओ । जइ सो सुयवावारो तओ किमन्नं मइन्नाणं ॥ १६४॥ आगमे मतिज्ञानं द्विधा प्रोक्तम्- श्रुतनिश्रितमवग्रहे हादिचतुष्कम्, अश्रुतनिश्रितं चौत्पत्तिक्यादिबुद्धिचतुष्टयम् । ततश्च सूरिरित्थं पराभिप्रायमाशङ्कते अथैवं परो ब्रूयात् आगमे श्रुतनिश्रितत्वेनापि मतिज्ञानस्य भणनात् श्रुतात् श्रुततोऽक्षरात्मकादसौ स्थाणु-पुरुपादिपर्यायविवेको मतः, न बुद्धेर्न मतेः सकाशात्, तस्याः स्वयमनक्षररूपत्वात् । अत्रोत्तरमाह- 'जड़ सो इत्यादि ' यदि हन्त ! स स्थाणु-पुरुषादिपर्यायविवेकः श्रुतव्यापारः तवग्रहं मुक्त्वा किमन्यद् मतिज्ञानम् ? न किञ्चिदित्यर्थः । यदि स्थाणु- पुरुषादिपर्यायविवेकोऽक्षरात्मकत्वात् श्रुतव्यापार इष्यते, तदेहा-पायादयो मतिभेदाः सर्वेऽप्यक्षरात्मकत्वात् श्रुतत्वमापन्नाः इत्यतोऽक्षराऽभिलापरहि तमवग्रहं मुक्त्वा शेषस्येहादिभेदभिन्नस्य सर्वस्याऽपि मतिज्ञानस्याभावप्रसङ्ग इति भावः । इति गाथार्थः ।। १६४ ।। अथाऽन्यथा परस्य वचनमाशङ्कय दूषयितुमाह अह सुयओ वि विवेगं कुणओ न तयं सुयं सुयं नत्थि । जो जो सुयवावारो अन्नो वि तओ मई जम्हा ॥ १६५॥ अथापि स्थाणु-पुरुषादिविवेकं कुर्वतः प्रमातुर्न तत् श्रुतम्, किन्तु मत्यभावभीत्या मतित्वेनाऽभ्युपगयस्ते हन्त ! तर्हेकत्र संधित्सतोऽन्यतः प्रच्यवते, यत एवं सति श्रुतं क्वचिदपि नास्ति श्रुताभावः प्राप्नोतीत्यर्थः । कुतः ? इत्याह- यो यश्चरणक रणादिप्रतिपादन लक्षणोऽन्योऽपि श्रुतस्याऽऽचारादेर्व्यापारः सकोऽसौ यस्माद् मतिज्ञानमेत्र, अक्षरात्मकत्वात्, स्थाणु-पुरुषादिपर्यायविबेकवत् ॥ इति गाथार्थः ॥ १६५ ।। अथ स्थाणु-पुरुषादिपर्यायविवेको मतिय, श्रुतं च भविष्यतिः अतो नैकस्याऽप्यभावप्रसङ्ग इत्याह २ श्रुतनिचितवचनादथाऽसौ श्रुततो मतो न पुढेः । यदि स श्रुतव्यापारस्ततः किमन्यद् मतिज्ञानम् ? ॥ १६४ ॥ ३ अथ श्रुततोऽपि विवेकं कुर्वतो न तच्तं श्रुतं नास्ति । यो यः श्रुतव्यापारोऽभ्योऽपि सको मतिर्यस्मात् ॥ १६५ ॥ For Personal and Private Use Only बृहद्वत्तिः । 1120011 www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy