SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ विशे० NEPARADIOPICADAINIROPADHANDED MAHARASसनाका BarooEARISTRIBHATARTSCRIMER भावसुयं, तेण मई वग्गसमा सुंबसरिसयं तं च । जं चिंतिऊण तया तो सुयपरिवाडिमणुसरइ ॥१६॥ अथोपचारः क्रियते उपचारविधिराधीयते, ततश्वार्थान्तरमपि यद् यस्माद् प्रभवति तत् तन्मयमिति भण्यते, यथा “तदपथ्यमियन्तं विक्रियाविस्तरमुपगतम्" "तदेकं वचनमेतावन्तं विपाकमापन्नम्" इत्यादि । ततश्चाऽजन्मयेऽपि ध्वनौ मतिगता ज्ञानमयतोपचर्यते । तथा च सति वल्क-शुम्बसादृश्येन मति-श्रुतयोरयं भेदः सिद्धो भवति ।। एवमुक्त आचार्यः सुहृद् भूत्वा परं शिक्षयति- ' तो मइपुव्वमित्यादि ' हन्त ! यापचारवादी भवान् , ततो मतिपूर्व भावश्रुतं यस्मादागमे भणितं, तेन कारणेन मतिर्वरकसमा, तच्च भावश्रुतं शुम्बसदृशम् , इत्येवं दृष्टान्तोपनयं कुरु, येनोपचारमन्तरेणाऽपि सर्वं सुस्थं भवति, यथा हि वल्काः शुम्बकारणं, तथा मतिरपि भावश्रुतस्य, यथा च शुम्बं बल्कानां कार्य तथा भावश्रुतमपि मतेः । कुतः इत्याहयद् यस्मात् कारणात् तया मत्या चिन्तयित्वा ततः श्रुतपरिपाटिमनुसरति-वाच्यवाचकभावेन परोपदेशश्रुतग्रन्थयोजनां वस्तुनि करोति; तस्माद् मतिश्रुतयोबल्कशुम्बयोरिव कार्यकारणभावाद् भेदसिद्धिः, इत्येवं दृष्टान्तोपनयो युक्तिं संसहते, न तु परोक्तप्रकारेण ॥ इति गाथाद्वयार्थः ॥ १६० ॥ १६१ ।। तदेवं वल्क-शुम्बोदाहरणादप्यभिहितो मति-श्रुतयोर्भेदः, सांप्रतं त्वक्षरा-ऽनक्षरभेदात् तमभिधित्सुः पराभिप्राय तावदुपन्यस्यन्नाह अन्ने अणक्खर-क्खरविसेसओ मइ-सुयाइं भिंदति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं ॥१६॥ अन्ये केचनापि मूरयोऽनक्षरा-ऽक्षरवद्विशेषतो मति-श्रुते भिन्दन्ति, यद् यस्मात् किल मतिज्ञानमनक्षरम् , श्रुतज्ञानं त्वक्षरवद् भवति, इतरचाऽनक्षरवदुच्छसितादीत्यर्थः ।। इति गाथार्थः ।। १६२ ॥ अत्राचार्यो दूषणमाह जैइ मइरणक्खरच्चिय भवेज नेहादओ निरभिलप्पे । थाणु-पुरिसाइपज्जायविवेगो किह णु होजाहि ?॥१६३॥ यदि हन्त ! मतिरनक्षरैव स्यात्-अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाभिलापे स्थावा १ भावश्रुतं, तेन मतिर्वल्कसमा शुम्बसदशं तच्च । वञ्चिन्तयित्वा तवा ततः श्रुतपरिपाटिमनुसरति ॥ ११ ॥ २ ख. 'मुपेतम् । ३ अन्येऽनक्षरा-ऽक्षरविशेषतो मति-श्रुते भिन्दन्ति । यद् मतिज्ञानमनक्षरमक्षरमितरच श्रुतज्ञानम् ॥ १२ ॥ ४ यदि मतिरनक्षरैच भवेद् नेहादयो निरभिलाष्ये । स्थाणु-पुरुषादिपर्यायविवेकः कथं न भवेत् ॥ १३ ॥ ॥९९॥ For Pesonal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy