________________
विशे०
॥ ९८ ॥
Jain Educationa Internation
पर्युदासाश्रयणादश्रुतानुसारिणा शब्देनैवाऽन्विता गृह्यते, न तु शब्दपरिणामरहिताऽवग्रहरूपा, तस्याः शब्दजनकत्वाभावेनाऽनन्तरं शुम्बसदृशद्रव्यश्रुताभावादिति ॥
अत्रोत्तरमाह - 'किं पुण तेसिं विसेसेणं ति' किं पुनस्तयोर्यथोक्तमति द्रव्यश्रुतयोर्विशेषेण भेदेनोक्तेन ? - अप्रस्तुतत्वाद् न किञ्चिदित्यर्थः । श्रुतज्ञानेनैव सहाऽत्र मतेर्भेदो विचारयितुं प्रक्रान्तः, इत्यतः किं द्रव्यश्रुतेन सह तच्चिन्तया ? इति भावः । इति गाथार्थः ॥ १५७॥
एतदेव भावयन्नाह
ईहइं जेणाहिकओ नाणविसेसो न दव्य-भावाणं । न य दव्व-भावमेत्ते वि जुज्जए सोऽसमंजसओ ॥ १५८॥
इहास्मिन् प्रक्रमे येन कारणेन ज्ञानयोरेव मति श्रुतलक्षणयोर्विशेषो भेदोऽधिकृतो न तु द्रव्य-भावयोर्मतिज्ञान- द्रव्यश्रुतलक्षणयोः, इत्यतः किं तद्भेदाभिधानेन ? इति । नच यथोक्तद्रव्य-भावयोरप्यसौ युज्यते । कुतः ? इत्याह- असमञ्जसतो दृष्टान्त-दान्तिकयोदृश्यात् ।। इति गाथार्थः ।। १५८ ।।
तथाहि
जैह वग्गा सुबत्तणमुर्वेति सुंबं च तं तओऽणण्णं । न मई तहा धणित्तणमुवेइ जं जीवभावो सा ॥ १५९ ॥
यथा वल्काः शुम्बत्वमुपयान्ति-आत्माऽव्यतिरिक्तशुम्ब परिणामापन्नाः शुम्वमित्युच्यन्ते, न तु शुम्बाद् व्यतिरिक्ताः तदपि च शुम्ब तेभ्यो वल्केभ्योऽनन्यरूपमव्यतिरिक्तम् ; न तथा मतिर्ध्वनित्वमुपैति यद् यस्मात् कारणात् सा मतिराभिनिवोधिकज्ञानत्वेन जीवभावो जीवपरिणामः, शब्दस्तु मूर्तत्वाद् न जीवभावः, इत्यतः कथममूर्त परिणामा मतिर्मूर्तध्वनिपरिणाममुपगच्छेत् ? अमूर्तस्य मूर्तपरिणामविरोधात् । तस्माद् दृष्टान्त-दाष्टन्तिकयोर्वैपम्यादिदमपि व्याख्यानमुपेक्षणीयम् ।। इति गाथार्थ: ।। १५९ ।।
पुनः परवचनमाशङ्कय तस्यैव शिक्षणार्थमाह
अह उवयारो कीरs पभवइ अत्यंतरं पिजं जत्तो । तं तम्मयं ति भण्णइ, तो मइपुव्वं जओ भणियं ॥ १६० ॥
१ ख. 'तयेत् इति' । २ इह येनाऽधिकृतो ज्ञानविशेषो न द्रव्य भावयोः । न च द्रव्य भावमात्रेऽपि युज्यते सोऽसम असतः ॥ १५८ ॥ ३ यथा बल्काः शुम्बत्वमुपयान्ति शुम्बं च तत् ततोऽनन्यत् । न मतिस्तथा ध्वनित्वमुपैति यज्जीवभावः सा ॥ १५९ ॥
४ अथोपचारः क्रियते प्रभवत्यर्थान्तरमपि यद् यस्मात् । तत् तन्मयमिति भण्यते, ततो मतिपूर्वं यतो भणितम् ॥ १६० ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
।। ९८ ।।
www.jainelltrary.org