SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विशे० 1199 11 Jain Educationa International शब्दो न केवल इति तत्र भावश्रुतत्वं भविष्यति । तदयुक्तम् । कुतः ? इत्याह- संकरः सांकर्य, संकीर्णत्वम्, मिश्रत्वमिति यावत्, मति श्रुतयोस्तस्य प्राप्तेः । निविशेषभावाद् वा यदेव मतिज्ञानम्, तदेव भावश्रुतमिति प्रतिपादनादेकमेव किञ्चित् स्यात्, नोभयमिति भावः । अस्तु विशेषाभाव इति चेद् । नैवम् । कुतः ? इत्याह- स्वलक्षणावरणभेदात् । कथंभूतात् ? इत्याह- पूर्वोक्तलक्षणात् 'किह व सुर्य होइ मई सलक्खणावरणभेयाओं' इति पूर्वाभिहितगाथावयवोक्तस्वरूपात् इदमुक्तं भवति - अभिनिवुध्यत इत्याभिनियोधिकम्, श्रूयत इति श्रुतम् इत्यादिकं मति श्रुतयोर्यत् स्वकीयं स्वकीयं लक्षणम्, आवारकं च कर्म, तयोर्भेदात् पूर्वाभिहितस्वरूपाद् मतिश्रुतयोर्निर्विशेषभावो न युज्यते । यदि हि तयोर्निर्विशेषता एकत्वं स्यात्, तदा लक्षणभेदः, आवरणभेदश्व पूर्वोक्तस्वरूपो न स्यादिति भावः ॥ इति गाथार्थः ॥ १५५ ॥ अथ द्रव्य-भावश्रुतयोरनेन दृष्टान्तेन भेदः प्रतिपाद्यते, सोऽपि न युक्त इति दर्शयन्नाह - कंप्पेजेज्ज व सो भाव - दव्वसुतेसु तेसु वि न जुत्तो । मइ सुयभेयावसरे जम्हा किं सुयविसेसेणं ? ॥ १५६ ॥ यदि वा भाव द्रव्यश्रुतयोः सः - बल्क- शुम्बोदाहरणाद्भेदः कल्प्येत भावश्रुतं हि कारणत्वात् किल वल्कसदृर्श, शब्दलक्षणं तु द्रव्यश्रुतं कार्यत्वात् शुम्बप्रतिमम् इत्येवमनयोर्भेद इष्येतेति भावः । तयोरप्यसौ न युक्तः । कुतः ? इत्याह- यस्माद् मति श्रुतयोभाव 'किं सुयविसेसेणं ति' श्रुतयोर्द्रव्य-भावश्रुतलक्षणयोविंशेषो भेदः श्रुतविशेषस्तेनाऽभिहितेन किं ?- असंबद्धत्वाद् न किञ्चिदित्यर्थः । इति गाथार्थः । १५६ ।। अथाऽन्यथा पराभिप्रायमाशङ्कमानः माह असुयक्खरपरिणामा व जा मई वग्गकपणा तम्मि । दव्वसुयं सुम्बसमं किं पुण तेसिं विसेसेणं ? ॥ १५७॥ श्रुतानुसार्यक्षर परिणामो यस्यां सा श्रुतानुसार्यक्षर परिणामा न तथा श्रुतानुसारित्वरहितशब्दमात्र परिणामाऽन्विता या मतिरित्यर्थः, तस्यां वा वल्ककल्पना क्रियते, तज्जनितशब्दरूपं तु द्रव्यश्रुतं शुम्बसदृशम्, अतस्तयोः प्रस्तुतोदाहरणाद् भेदो युक्तियुक्तो भवियति । श्रुतानुसार्यक्षर परिणामा मतिर्भावश्रुतमेव स्यात्, अतः पूर्वस्माद् न विशिष्येत, इत्यश्रुताक्षरपरिणामित्वं विशेषणम् । सा च १३ १ गाथा १३५ | २ कल्प्येत वा स भाव द्रव्यश्रुतयोस्तयोरपि न युक्तः । मति श्रुतभेदावसरे यस्मात् किं श्रुतविशेषेण ? ॥१५६॥ ३ अश्रुताक्षरपरिणामा वा या मतिर्वकल्पना तस्याम् । द्रव्यश्रुतं शुम्बसमं किं पुनस्तयोविशेषेण ? ॥ १५७ ॥ For Personal and Private Use Only बृहद्वृत्तिः। ॥९७॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy