SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विशे० सांप्रतं तु मतिज्ञानी श्रुतोपलब्ध्या तुल्यं समं न भाषत इत्येवमुपलब्धिसमत्वाभावमुपदर्शयन्नाह-'न सुओवलद्धीत्यादि' वाशब्दः प्रकारान्तरद्योतकः, ततश्च न श्रुतोपलब्ध्या तुल्यं मतिज्ञानी भाषत इति वा, यतो यस्मात् कारणाद् नोपलब्धिसमं मतिज्ञानिनो भा पणम् , तस्माद् न तत्र श्रुतरूपता, इदमुक्तं भवति- श्रुतोपलब्धौ परोपदेशा-हद्वचनलक्षणश्रुतानुसारेणोपलब्धानर्थान् भाषते, मत्युप॥९६लब्धौ तु तदुपलब्धानेव, इत्यतो न मतिज्ञानिनो भाषणं श्रुतोपलब्धिसमम् । ततश्च न तत्र श्रुतसंभवः ॥ इति गाथार्थः॥ १५३ ॥ तदेवं ' सोइंदिओवलद्धी होइ सुर्य' इत्यादिमलगाया तत्त्वतः श्रोत्रेन्द्रियविषयमेव श्रुतज्ञानम् , सर्वेन्द्रियविषयं च मतिज्ञानमित्येवं मति-श्रुतयोर्भेदः प्रतिपादितः, तत्प्रतिपादनक्रमे च 'बुद्धिद्दिढे अत्थे जे भासई' इत्यादिगाथा समायाता, सा च द्रव्य-भावोभय श्रुतरूपाऽभिधायकत्वेन मति-श्रुतयोर्भेदाभिधानपरतया च व्याख्याता, तव्याख्याने चाऽवसित इन्द्रियविभागादपि मति- श्रुतयोर्भेदः । | सांप्रतं बल्क-शुम्बोदाहरणात् तमभिधित्सुराह अन्ने मन्नति मई वग्गसमा सुंबसरिसयं सुत्तं । दिट्ठन्तोऽयं जुत्तिं जहोवणीओ न संसहइ ॥ १५४ ॥ अन्ये केचनाऽप्याचार्या मन्यन्ते । किम् ?, इत्याह- वल्कसमा वल्कसदृशी मतिः, ततः सैव यदा शब्दतया संदर्भिता भवतितजनितो यदा शब्द उत्तिष्ठतीत्यर्थः, तदा तदुत्थशब्दसहिता श्रुतमुच्यते, तच शुम्बसदृशं वल्कजनितदवरिकातुल्यं श्रुतं भवा | तदभ्युपगमः शोभन इति चेत् । नैवमित्याह- 'दिहतोऽयमित्यादि' अयं वल्कशुम्बदृष्टान्तो यथा तैरुपनीतः- उक्तमकारेण प्रकृते योजितः, तथा युक्तिं न सहते-न क्षमते, अन्यथा त्वस्मदभिमतवक्ष्यमाणप्रकारेणोपनीयमान एषोऽपि युक्तिक्षमो भविष्यतीति भावः ॥ | इति गाथार्थः॥१५४॥ कुतो न संसहते ? इत्याह भाँवसुयाभावाओ संकरओ निविसेसभावाओ । पुव्वुत्तलक्खणाओ सलक्खणावरणभेयाओ ॥१५५।। नैष दृष्टान्तो युक्ति क्षमत इति सर्वत्र साध्यम् , मतेरनन्तरं शब्दमात्रस्यैव भावेन भावश्रुतस्याऽभावप्रसङ्गात् । अथ मतिसहितोऽयं १ गाथा ११७ । २ ख. सूत्रगा'। ३ गाथा १२८ । ४ ख. 'णतस्तम'। ५ अन्ये मन्यन्ते मतिर्वल्कसमा शुम्बसदशं श्रुतम् । रष्टान्तोऽयं, युक्ति यथोपनीतो न संसहते ॥ १५ ॥ C९६॥ ६ ख. 'गमे शोभनं' । ७ भावश्रुताभावात् संकरतो निर्विशेषभावात् । पूर्वोकलक्षणात् स्वलक्षणा-ऽऽवरणभेदात् ॥ १५५ ॥ For Pesond er
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy