________________
विशे०
॥ ९५ ॥
Jain Educationa Internati
'उभयहा मइनाणं' इति वचनाद् यदि तस्मिन्नपि मतिज्ञाने शब्दपरिणामो भवति, ततस्तस्मिन्नपि किं न श्रुतं तदपि भावश्रुतरूपतां किं न प्रतिपद्यते ? इत्यर्थः, शब्दपरिणामस्य श्रुतत्वेनोक्तत्वादिति भावः । अत्राऽऽचार्य उत्तरमाह - ' भासइ जं नोवलद्धिसमं ति' यद् यस्मात् कारणादुपलब्धिसमं मतिज्ञानी न भाषते, ततो न मतिज्ञानस्य श्रुतरूपता । इति गाथार्थः ॥ १५१ ॥
कथं पुनरुपलब्धिसममसौ न भणति ? इत्याह
अभिलप्पा ऽणभिलप्पा उवलद्धा तस्समं च नो भणइ । तो होउ उभयरूवं उभयसहावं ति काऊ ॥ १५२॥ प्रागुक्तन्यायेनाऽभिलाप्या ऽनभिलाप्याः पदार्था मतिज्ञानोपलब्धाः, एवंभूतोपलब्ध्या च समं भणितुं न शक्नोत्येव, अनभिलाप्यानां सर्वथैव वक्तुमशक्यत्वादिति भावः ॥
अत्र परः प्राह - ' तो होउ इत्यादि ततस्तर्हि भवतु मतिज्ञानमुभयरूपं श्रुत- मतिरूपम् । कुतः ?, इत्याह- उभयस्वभावमिति कृत्वा, अभिलाप्या-ऽनभिलाप्यवस्तुविषयत्वेन द्विस्वभावत्वादित्यर्थः इदमुक्तं भवति - यदभिलाप्यपदार्थानुपलभते भाषते च तत् श्रुतज्ञानमस्तु ; अनभिलाप्यपदार्थास्तु भाषणाऽयोग्यान् यदवगच्छति, तद् मतिज्ञानं भवति ।। इति गाथार्थः ॥ १५२ ॥
अत्रोत्तरमाह
भाइ तं पिजओ न सुयादेसेण किन्तु समईए । न सुओवलद्धितुलं ति वा जओ नोवलद्धिसमं॥१५३॥ यदपि किञ्चिदभिलाप्य वस्तूपलब्धं मतिज्ञानी भाषते तदपि यतो न श्रुतादेशेन, किन्तु स्वमत्या, अतो न तत् श्रुतमिति । इदमुक्तं भवति - परोपदेशः, श्रुतग्रन्थश्च श्रुतमिहोच्यते, तदादेशेन तु तदनुसारेण विकल्प्य यदा भाषते, तदा श्रुतोपयुक्तस्य भाषणात् श्रुतमुपपद्यत एव यत्र तु स्वमत्यैव पर्यालोच्य भाषते न तु श्रुतानुसारेण तत्र श्रुतोपयुक्तत्वाभावाद् मतिज्ञानमेव । तदेवं 'भासइ जं नोवलद्धिसमं ' इत्यस्य गाथावयवस्य 'अभिलप्पा णभिलप्पा उवलद्धा' इत्यादिना व्याख्यानं कुर्वताऽऽचार्येण मतिज्ञानी मतिज्ञानोपलध्या समं न भाषते, अतस्तत्रोपलब्धिसमं भाषणं न भवति, इत्यतो न मतिज्ञाने श्रुतरूपतेत्युक्तम् ; श्रुतज्ञानी त्वभिलाप्यानुपलभते, तांश्च भाषते, अतस्तत्रैवोपलब्धिसमत्वस्य सद्भावात् श्रुतरूपतेति भावः ॥
१ गाथा १५० | २ अभिलाप्या ऽनभिलाप्या उपलब्धास्तत्समं च न भणति । ततो भवतूभयरूपमुभयस्वभावमिति कृत्वा ॥ १५२ ॥
३ यद् भाषते तदपि यतो न श्रुतादेशेन किन्तु स्वमत्या । न श्रुतोपलब्धितुल्यमिति वा यतो नोपलब्धिसमम् ॥ १५३॥ ४ गाथा १५१ । ५ गाथा १५२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। ९५ ।।
www.jainellibrary.pro