SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ९४ ॥ Jain Educationa Internatio अथ यथोक्तव्याख्यानलब्धमति श्रुतभेदोपदर्शनपूर्वकमुपसंहरन्नाह- ऐवं धणिपरिणामं सुयनाणं उभयहा मइन्नाणं । जं भिन्नसहावाई ताई तो भिन्नरूवा ॥ १५० ॥ एवं प्रागुक्तप्रकारेण केवलाऽभिलाप्यार्थविषयत्वात् सर्वमपि श्रुतज्ञानं ध्वनिपरिणाममेव ध्वनेः शब्दस्य परिणमनं विपरिवर्तनं परिणामो यत्र तद् ध्वनिपरिणामं भवत्येव, श्रुतानुसारित्वेनोत्पन्नमेव ह्येतदिष्यते श्रुतं च संकेतकालभाविपरोपदेशरूपः श्रुतग्रन्थरूपश्च द्विविधः शब्दोऽधिकृतः, तदनुसारेण चोत्पन्ने ज्ञाने ध्वनिपरिणामो भवत्येवेति । मतिज्ञानं तूभयथाऽपि भवति - शब्दपरिणामम्, अशब्दपरिणामं च, अभिलाप्यानभिलाप्यपदार्थविषयं ह्येतत् । ततश्च श्रुतानपेक्षस्वमत्यैव विकल्प्यमानेष्वभिलाप्येषु ध्वनिपरिणामोऽस्मिन्नपि प्राप्यते । अनभिलाप्यविषयतायां तु नासौ तत्र लभ्यते, अनभिलाप्यपदार्था हि स्वयमेव बुध्यमाना अपि वाचकध्वनेरभावाद् विकल्पयितुं, परस्मै प्रतिपादयितुं वा न शक्यन्ते, यथा नालिकेरद्वीपाऽज्यातस्य वहयादयः क्षीरे-क्षु-गुड-शर्करादिमाधुर्यतारतम्यादयो वा ; इति कुतस्तद्विषयतायां ध्वनिपरिणामः ? । अभिलाप्य पदार्थेभ्योऽनन्तगुणाश्चाऽनभिलाप्याः सन्ति । ततोऽभिलाप्या ऽनभिलाप्यवस्तुविषयत्वाच्छब्दा-शब्दपरिणामं मतिज्ञानमिति स्थितम् । अथोपसंहरति--'तो ति' तस्मात् ते मतिश्रुते स्वामि- कालादिभिरविशेषेऽपि भिन्नरूपे भेदवती मन्तव्ये । कुतः ? इत्याह- यद् यस्मात् कारणाद् द्वे अपि भिन्नस्वभावे- उक्तन्यायेनैकस्य ध्वनिपरिणामित्वात्, अपरस्य तूभयस्वभावत्वात् ॥ इति गाथार्थः ।। १५० ।। तदेवं मूलगाथायां 'बुद्धिद्दि अत्थे जे भासइ तं सुयं मईसहियं' इत्येतत् पूर्वार्ध 'सामण्णा वा बुद्धी' इत्यादिना व्याख्यातम् । अथ 'ईयरत्थ वि होज्ज सुयं उवलद्धिसमं जइ भणेज्जा' इत्येतदुत्तरार्धं व्याचिख्यासुराह रति मन्नाणं तओ वि जइ होइ सहपरिणामो । तो तम्मि वि किं न सुयं भासइ जं नोवलद्धिसमं ? ॥ १५१ ॥ ' ईयरत्थ वि होज्ज सुर्य' इति मूलगाथोत्तरार्धे इतरशब्दस्य किं वाच्यम् ?, इत्याह- इतरदिति मतिज्ञानं तत्राऽभिसंबध्यते, इत्याचार्येणोक्ते परः प्राह- 'तओ वि जइ होइ सदपरिणामो तो तमिवि किं न सुयं ति' तत इति सप्तम्यन्तात् तस्प्रत्ययः, ततश्च १ ख. घ. छ 'हारमाह' २ एवं ध्वनिपरिणामं श्रुतज्ञानमुभयथा मतिज्ञानम् । यद् भिन्नस्वभावे ते ततो भिन्नरूपे ॥ १५० ॥ ३ क. ग. 'षयित्वात्' । ४ घ. छ. 'णामं श्रुता' ५ गाथा १२८ । ६ गाथा १४७१ ७ इतरदिति मतिज्ञानं ततोऽपि यदि भवति शब्दपरिणामः । ततस्तस्मिन्नपि किं न श्रुतं भाषते यद् नोपलब्धिसमम् ? ॥ १५१ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ ९४ ॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy