SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ९३ ॥ Jain Educationis Internati यदुक्तं तस्य कः तात्पर्यार्थः १ इत्याह- श्रुतोपयुक्तस्यैव भाषमाणस्याभाषमाणस्य वा भावश्रुतं भवति, नाऽन्यस्य; इदमुक्तं भवति - मतिसहितमिति श्रुतमतिसहितं यथा भवति, एवं यान् भाषते त एव भावश्रुतम्, नाऽन्ये । ततश्च श्रुतोपयुक्तस्यैव भाषणयोग्यानर्थान् विकल्पयतो भावश्रुतं सिद्धं भवति । एवं च सति श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्यासंभवाद् मतिविकल्पस्य भाषणयोग्यत्वे सत्यपि कुतोभावत्वम् इति ॥ आह- ननु सामान्या बुद्धिरिह गृहीता, श्रुतोपयुक्तत्वे च गृह्यमाणे कथं मतिदृष्टत्वमर्थानां संभवति, श्रुतबुद्धिदृष्टत्वस्यैव तत्र संभवात् । नैतदेवम् मतिपूर्व हि श्रुतम्, ततो यत्र श्रुतबुद्धिदृष्टत्वं तत्र मतिदृष्टत्वमस्त्येव, इति न काचित् क्षतिः, इत्यलमतिचर्चितेन । तदेवं श्रुतज्ञानोपयुक्तः सामान्य बुद्धिदृष्टानर्थान् संभवतो यान् भाषते तद् भावश्रुतमिति स्थितम् । नन्वर्थानां कथं भावश्रुतत्वम् ? ज्ञानस्यैव तत्संभवात् । सत्यम्, किन्तु विषय-विषायणोरभेदोपचाराद् भावश्रुते प्रतिभासमाना अर्था अपि भावश्रुतम् इत्यदोषः । ' महरन्नत्ति ' यथोक्ताद् भावश्रुतादन्या व्यतिरिक्ता मतिर्द्रष्टव्या, इदमुक्तं भवति - येऽभिलाप्या अपि सन्तो घटादयः श्रुतानुसारिवाभावेन श्रुतोपयुक्तैर्न विकल्प्यन्ते ये चार्थपर्यायत्वेन वाचकध्वनेरभावाद् मूलत एवाऽभिलपितुमशक्या अनभिलाप्याः, ते यस्यां विज्ञप्तौ प्रतिभासन्ते, सा मतिरित्यवगन्तव्या न तु श्रुतम्, अभिलाप्यवस्तुविषयायां श्रुतानुसारित्वाभावात्, अनभिलाप्यवस्तुविषयायां तु भाषणायोग्यत्वात् ।। इति गाथाद्वयार्थः ॥ १४७ ॥ १४८ ॥ अष्टोऽवधारणविधिमुपदर्शयन्नाह - 'जे भासइ चेय तयं सुयं तु न उ भासओ सुयं चैव । केई मईए वि दिट्ठा जं दव्वसुयत्तमुवयंति ॥१४९॥ ' बुद्धिदिट्ठे अत्थे जे भासइ' इत्यत्र यान् कदाचित् संभवमात्रेण भाषत एव तच्छ्रुतमित्येवमेवावधारणीयम्, न तु भाषमाणस्य श्रुतमेवेतिया भाषते तच्छ्रुतैमेवेत्येवं नावधार्यत इत्यर्थः । कुतः ? इत्याह- यद् यस्मात् कारणात् केचिदभिलाप्याः पदार्था मत्याऽपि दृष्टा अवग्रहेणावगृहीताः, ईहया त्वीहिताः, अपायविकल्पेन तु निश्चिता इत्यर्थः, द्रव्यश्रुतत्वमुपयान्ति शब्दलक्षणेन द्रव्यश्रुतेन भाष्यन्त इत्यर्थः । यदि च भाषमाणस्य श्रुतमेवेत्यवधार्येत, तदैषामपि श्रुतत्वं स्यात्, न चैतदिष्यते श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्य तेष्वसंभवात् तस्माद् यथोक्तमेवाऽवधारणम् ।। इति गाथार्थः ॥ १४९ ॥ १ यान् भाषत एव तत् श्रुतं तु न तु भाषमाणस्य श्रुतमेव । केचिद् मत्याऽपि दृष्टा यद् द्रव्यश्रुतव्यमुपयान्ति ॥ १४९ ॥ २ गाथा १२८ । ३ ख 'तमित्येतदवधा' । For Personal and Private Use Only बृहद्वतिः । ॥ ९३ ॥ 308 www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy