SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ विशे० हाम्नास बृहद्वा ॥ ९२॥ BR- 6 राइस गुणहीन एव पामोति, इति न तावत् परस्थाने पदस्थानपतितत्वम् । स्वस्थानेऽपि श्रुतज्ञानी अन्यस्मात् श्रुतज्ञानिनः संख्यातेनैव हीनोऽधिको वा स्यात् , न त्वसंख्यातेन, अनन्तेन वा, भाषकचतुर्दशपूर्वविदा संख्येयवर्षायुष्कत्वेनाऽसंख्येयस्याऽनन्तस्य वा भाषणस्यैवा- ऽसंभवादिति । अस्यैव च विशेषणदूषणस्याऽभिधानार्थ पुनरत्रेदं मतान्तरमुपन्यस्तम् , अन्यथा हि 'केई बुद्धिदिढे मइसहिए भासओ सुयं' इत्यादिना सर्वमिदं प्रागभिहितमेव ।। इति गाथार्थः ॥ १४६ ॥ तदेवं 'बुद्धिद्दिढे अत्थे इत्यादिपूर्वगतगाथा श्रुतस्वरूपाभिधायिना प्रकारेण व्याख्याता, मति-श्रुतयोश्च भेदस्य व्याख्येयत्वेन प्रस्तुतत्वात् तदभिधायकत्वेनापि मतान्तरेण व्याख्याता, तच्च व्याख्यानमयुक्तत्वाद् दुषितम् । अथाऽऽत्माभिमतेन निरवद्यमति-श्रुतभेदपकारणैतां व्याख्यातुमाह सामन्ना वा बुद्धी मइ-सुयनाणाई तीए जे दिट्ठा । भासइ, संभवमेत्तं गहियं न उ भासणामेत्तं ॥१४७॥ मइसहियं भावसुयं तं निययमभासओ वि मइरन्ना । मइसहियं ति जमुत्तं सुओवउत्तस्स भावसुयं ॥१४८॥ खविहितप्रथमव्याख्यानापेक्षया वाशब्दो यदिवेत्यर्थः, 'बुद्धिद्दिष्टे अत्थे' इत्यत्र येयं बुद्धिः, असौ सामान्या गृह्यते; ततः किम् ? इत्याह-'मइ-सुयनाणाई ति' मति-श्रुतज्ञाने द्वे अपि बुद्धिरिहेत्यर्थः, तया मतिश्रुतज्ञानात्मिकया बुद्ध्या ये दृष्टा भावास्तेषु मध्ये यान् भाषते तद् भावश्रुतमित्युत्तरगाथायां संबन्धः। भाषत इत्यत्र च भाषणस्य संभवमात्रं गृहीतम् , न तु भाषणमात्रम् । ततश्चेदमुक्तं भवति-तत्राऽन्यत्र वा देशे, तदाऽन्यदा वा काले, स चाऽन्यो वा पुरुषः, सति सामग्रीसंभवे निश्चयेनैतान् भाषत एव, इत्येवं यान् भावानन्तर्विकल्पे प्लवमानान् भाषणयोग्यतायां व्यवस्थापयति, तेऽभाष्यमाणा अपि भाषणयोग्याः सन्तो भावश्रुतं भवन्ति, न तु भाष्यमाणा एवेति भावः । एवं च सति मत्युपलब्धानामनभिलाप्यानामर्थानां भाषणायोग्यत्वाद् भावश्रुतत्वमपाकृतं भवति, भाषणयोग्यानां त्वभाष्यमाणानामपि सर्वेषां विकल्पप्रतिभासिनामर्थानां भावश्रुतत्वमावेदितं भवति । अत एव पर्यवसितमर्थ द्वितीयगाथायामाह-नियतं निश्चितं तद् भावश्रुतमभाषमाणस्यापि भवति, योग्यतामात्रेणैव भाषणस्य गृहीतत्वादिति भावः ।। आह- ये सामान्यबुद्धिदृष्टा अर्था ये भाषणयोग्याः, यदि तेषां भावश्रुतत्वम् , तर्हि मतिज्ञानान्तर्वर्त्यपायविकल्पावभासिनामपि तत्पसङ्गः, न हि तेऽपि न भाषणयोग्याः, इत्याशङ्कयाह-'मतिसहितमिति' । अस्य व्याख्यानमाह-'मइसहियं तीत्यादि' मतिसहितमिति १ गाथा १३२ । २ गाथा १२८। ३ सामान्या वा बुद्धिमात-श्रुतज्ञाने तया ये रष्टाः । भाषते, संभवमानं गृहीतं न तु भाषणामात्रम् ॥ १४७ ॥ मतिसहितं भावभुतं तद् निषतमभाषमाणस्याऽपि मतिरन्या । मतिसहितमिति यदुक्तं श्रुप्तोपयुक्तस्य भाषश्रुतम् ॥ १८ ॥ ॥९२॥ Jan Education Internat For Personal and Private Use Only Nwww.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy