SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विशे० ॥९ ॥ चतुर्दशपूर्वलक्षणश्रुतानुसारित्वेन यदेतद् मतिविशेषाणां तदन्त वित्वमुक्तम् , तदेव समर्थयन्नाह जे अक्खराणुसारेण मईविसेसा तयं सुयं सव्वं । जे उण सुयनिरवेक्खा सुखै चिय तं मइन्नाणं ॥१४॥ येऽक्षरानुसारेण श्रुतग्रन्थमनुसृत्य जायन्ते मतिविशेषास्तत् सर्वं श्रुतमेव, इत्यसकृदुक्तम् । ये तु यथोक्तश्रुतनिरपेक्षाः स्वयमेवोलेक्षितवस्तुतत्त्वा मतिविशेषाः समुत्पद्यन्ते तच्छुद्धं मतिज्ञानमेव, इत्येतदप्यनेकधा प्रागप्यभिहितम् । तस्माच्चतुर्दशपूर्वगताक्षरानुसारेण जायमानाः प्रस्तुतमतिविशेषाः सर्वे श्रुतमेव ॥ इति गाथार्थः ॥ १४४ ॥ . तदेवं द्रव्यश्रुतादिश्रुतस्वरूपप्रतिपादनप्रकारेण 'बुद्धिदिहे अत्थे जे भासइ' इत्यादिमूलगाथा व्याख्याय 'केई बुद्धिद्दिढे मइ. सहिए भासओ' इत्यादिना दर्शितमपि विशेषदूषणाभिधित्सया पुनरपि मतान्तरमुपदर्शयन्नाह केइ अभासिजन्ता सुयमणुसरओ वि जे मइविसेसा । मन्नति ते मइच्चिय भावसुयाभावओ, तन्नो॥१४५॥ केचिद् व्याख्यातारः ' मन्नति ते मइ चियत्ति' तान् मतिविशेषान् श्रुतमनुसरतोऽपि मतिरेवेति मन्यन्ते । ये किम् ? इत्याहयेऽभाष्यमाणा येषु शब्दप्रवृत्तिर्नास्तीत्यर्थः, श्रुतानुसारिणोऽपि मतिविशेषा ये शब्दप्रवृत्तिरहिताः केवलं हृद्येव विपरिवर्तन्ते ते मतिज्ञानमेवेति केचिद् मन्यन्त इति भावः । तदेतद् न । कुतः १, इत्याह- भावश्रुताभावप्रसङ्गात् , तदभावश्च ''किं सद्दो मइरुभयं भावसुर्य सव्वहाऽजुत्तं'' सद्दो ता दबसुयं मइराभिणिवोहियं नवा उभयं' इत्यादिपूर्वोक्तग्रन्थाद् भावनीयम् ॥ इति गाथार्थः ॥ १४५ ॥ किश्च, किर्ह मइ-सुयनाणविऊ छट्ठाणगया परोप्परं होजा? । भासिजंतं मोत्तुं जइ सव्वं सेसयं बुद्धी ॥ १४६ ॥ यदि भाष्यमाणं मुक्त्वा शेषकं सर्वमपि बुद्धिर्मतिज्ञानमित्यर्थः, तर्हि मति-श्रुतज्ञानाभ्यां विदन्तीति मति-श्रुतज्ञानवेदिनः परस्परं स्वस्थाने परस्थाने च कथं पदस्थानपतिताः स्युः न कथश्चिदित्यर्थः, तथाहि-सर्वेणाऽपि जन्मना मति-श्रुतोपलब्धानामनामनन्तभागएव भाष्यत इति प्रागिहैवोक्तम् । ततश्च मतिज्ञानी श्रुतज्ञानिनः सकाशात् सदैवाऽनन्तगुणाधिकः, श्रुतज्ञानी वितरस्माद् नित्यमनन्त येऽक्षरानुसारेण मतिविशेषास्तत् श्रुतं सर्वम् । वे पुनः श्रुतनिरपेक्षाः शुद्धमेव तद् मतिज्ञानम् ॥ १४ ॥ २ गाथा १२८ । ३ गाथा १३२ । ४ केचिदभाष्यमाणाः श्रुतमनुसरतोऽपि ये मतिविशेषाः । मन्यन्ते तान् मतिरेव, भावभुताभावतः, तद् न ॥१४५॥५ क.ग. 'स्ते मति'।६ गाथा १३२॥ ७ गाथा १३३ । ८ कथं मति-श्रुतज्ञानविदः षट्स्थानगताः परस्परं भवेयुः । भाष्यमाणं मुक्त्वा यदि सर्व शेषकं बुद्धिः ॥ १४६॥
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy