SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पर वृहद्वात्तः। विशे० ॥९॥ वेदितया य उत्कृष्टश्चतुर्दशपूर्वधरः, ततोऽन्यो हीन-हीनतरादिः, आगमे इत्थं प्रतिपादितः,तद्यथा-"अणंतभागहीणे वा, असंखेज्जभागहीणे वा, संखेजभागहीणे वा, संखेजगुणहीणे वा, असंखेजगुणहीणे वा, अर्णतगुणहणि वा" । यस्तु सर्वस्तोकाभिलाप्यवस्तुज्ञायकतया सर्वजघन्यः, ततोऽन्य उत्कृष्ट उत्कृष्टतरादिरप्येवं प्रोक्तः, तद्यथा “ अणंतभागभहिए वा, असंखेज्जभागभहिए वा, संखेज्जभागभाहए वा; संखेजगुणब्भहिए वा, असंखेजगुणब्भाहए वा, अणंतगुणब्भहिए वा" । तदेवं यतः परस्परं पदस्थानपतिताश्चतुर्दशपूर्वविदः, तस्मात् कारणात् यत् मूत्रं चतुर्दशपूर्वलक्षणं तत् प्रज्ञापनीयानां भावानामनन्तभाग एवेति । यदि पुनर्यावन्तः प्रज्ञापनीया भावास्तावन्तः सर्वेऽपि सूत्रे निबद्धा भवेयुः, तदा तद्वदिनां तुल्यतैव स्यात् , न षट्स्थानपतितत्वमिति भावः ॥ इति गाथार्थः ॥१४२॥ आह-ननु यदि सर्वेऽपि चतुर्दशपूर्वविदः, तर्हि कथं तेषां परस्परं हीनाधिक्यम् ? इत्याह अक्खरलंभेण समा ऊणहिया होति मईविसेसेहिं । ते वि य मईविसेसे सुयनाणभंतरे जाण ॥१४३॥ चतुर्दशपूर्वगतमूत्रलक्षणेनाऽक्षरलाभेन समास्तुल्याः सर्वेऽपि चतुर्दशपूर्वविदः, ऊनाधिकौस्ते मतिविशेषैर्भवन्ति क्षयोपशमवैचिच्याद् यथोक्ताक्षरलाभानुसारिभिरेव तैस्तैर्गम्याविषयैर्विचित्रैर्बुद्धिविशेपै-नाधिका भवन्तीत्यर्थः । इह च मतिशब्दोपादानविभ्रमात् ते मतिविशेषा मा भूवनाभिनिबोधिकज्ञानविशेषाः, इत्यत आह- ' ते वि येत्यादि । इदमुक्तं भवति- मतिशब्देनेह श्रुतमतिर्विवक्षिता, न त्वाभिनिबोधिकमतिः। ततश्च यैश्चतुर्दशपूर्वविदो हीनाधिकास्तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि श्रुतज्ञानान्तभोविनएव विद्धि, न स्वाभिनिबोधिकान्तर्वतिन इति भावः । यद्येवं ते वि य मईविसेसे सुयनाणं चेव जाणाहि' इत्येवमेव प्रगुणं कस्माद् नोक्तम् , किमभ्यन्तरशब्दोपादानक्लेशेन ? । नैतदेवम् , अस्यापि न्यायस्य दृष्टत्वात् , अङ्गाभ्यन्तरादिव्यपदेशवत् , यथा ह्यङ्गमेवाङ्गाभ्यन्तरम् , एवं श्रुतमेव श्रुताभ्यन्तरमित्युक्तं भवति; अथवा छन्दोभङ्गभयादभ्यन्तरग्रहणम् , यदि वा 'सुयनाण-' इत्यनेन चतुर्दशपूर्वलक्षणं श्रुतमधिक्रियते, ततश्च तानपि गम्यान् मतिविशेषांश्चतुर्दशपूर्वाक्षरलाभरूपस्य श्रुतस्यैवाऽभ्यन्तरे जानीहि त्वं, न व्यतिरितानिति शिष्योपदेशः, चतुर्दशभिरपि हि पूर्वैः कश्चित् साक्षात् , कश्चित्तु गम्यतया सर्वोऽप्यभिलाप्यः पदार्थोऽभिधीयत एवः ततश्च गम्या अपि मतिविशेषास्तदन्त विन एव, तदनुसारित्वात् ॥ इति गाथार्थः॥१४३॥ १ अनन्तभागहीना वा, असंख्येयभागहीना वा, संख्येयभागहीना वा; संख्येयगुणहीना वा, असंख्येयगुणहीना वा, अनन्तगुणहीना वा। २ अनन्तभागाभ्यधिका वा, असंख्येयभागाभ्यधिका बा, संण्येयभागाभ्यधिका वा, संख्येषगुणाभ्यधिका वा, असंख्येषगुणाभ्यधिका बा, अनन्सगुणाभ्यधिका वा । ३ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥ १४३ ॥ ४ घ. छ 'कास्तु'। CRP ॥ ९ ॥ ForsTower For Persone el
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy