SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशे० ॥ ८९॥ श्रुतस्यापि बहुत्वलक्षणो हेतुः प्रागुक्त एव, किमितीह पुनरप्युच्यते ? इति चेत् । सत्यम् , किन्तु श्रुतोपलब्धा बहुत्वात् , शेषोपलब्धास्तु तत्स्वाभाव्याद् न शक्यन्तेऽभिधातुम् , इति विषयविभागदर्शनार्थ तस्येह पुनरुपन्यासः ।। अपरस्त्वाह-ननु मत्याधुपलब्धानामपि केषाञ्चिदभिलाप्यत्वात् किमुच्यते 'सेसोवलद्धभावा साभव्यत्ति' ? | सत्यम् , किन्तु तेषां श्रुतविषयत्वेनैवाऽभिधानाशक्यत्वस्योक्तत्वाददोषः ॥ इति गाथार्थः ।। १३९ ।। विनेयः पृच्छति केत्तो एत्तियमेत्ता भावसुय-मईण पज्जया जेसिं ? । भासइ अणंतभागं, भण्णइ जम्हा सुएऽभिहियं ॥१४॥ कुतः पुनरेतावन्तो भावश्रुत-मत्योः पर्याया उपलब्धार्थविषया विशेषाः , येषां सर्वेणापि जन्मनाऽनन्तभागमेव भाषत इति मागुक्तम् । अत्र गुरुराह--भण्यतेऽत्रोत्तरम् -- यस्मात् सूत्रे आगमे वक्ष्यमाणमभिहितम् , तस्मात्तयोरेतावन्तः पर्यायाः ।। इति गाथार्थः।।१४०॥ किं तत् सूत्रेऽभिहितम् ? इत्याह पेण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिजाणं पुण अणंतभागो सुयनिबद्धो ॥१४१॥ प्रज्ञाप्यन्ते प्ररूप्यन्त इति प्रज्ञापनीया वचनपर्यायत्वेन श्रुतज्ञानगोचरा इत्यर्थः । के ?, भावा ऊर्ध्वाधस्तिर्यग्लोकान्तर्निविष्टभूभवन-विमान-ग्रह-नक्षत्र-तारका- ऽन्द्रादयस्ते सर्वेऽपि मिलिताः । किम् ? इत्याह-अनन्ततम एव भागे वर्तन्ते । केषाम् ?, अत्राह- अनभिलाप्यानामर्थपर्यायत्वेनाऽवचनगोचरापन्नानामित्यर्थः, अनभिलाप्यवस्तुराशेरभिलाप्यपदार्थसार्थः सर्वोऽप्यनन्ततम एव भागे वर्ततइत्यर्थः । प्रज्ञापनीयपदार्थानां पुनरनन्तभाग एव चतुर्दशपूर्वलक्षणे श्रुते निबद्धो भगवद्भिर्गणधरैः साक्षाद् ग्रथितः ॥ इति गाथार्थः ॥१४१॥ कुतः पुनरेतद् विज्ञायते यदुत- प्रज्ञापनीयानामनन्तभाग एव श्रुतनिबद्धः १, इत्याह-- जं चोदसपुव्वधरा छट्ठाणगया परोप्परं होति । तेण उ अणंतभागो पण्णवणिजाण, जं सुत्तं ॥१४२॥ यद् यस्मात् कारणाच्चतुर्दशपूर्वधराः षट्स्थानपतिताः परस्परं भवन्ति, हीनाधिक्येनेति शेषः, तथाहि-- सकलाभिलाप्यवस्तु , कुत एतावन्मात्रा भावभुत-मत्योः पर्याया येषाम् ? । भाषतेऽनन्तभागं, भण्यते यस्मात् श्रुतेऽभिहितम् ॥ १४ ॥ २ प्रज्ञापनीया भावा अनन्तभागस्तु अनभिलाप्यानाम् । प्रज्ञापमीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ ११ ॥ ३ यच्चतुर्दशपूर्वधराः षट्स्थानगताः परस्परं भवन्ति । तेन तु अनन्तभागः प्रज्ञापनीयाना, यत् सूत्रम् ॥ १४२ ॥ । ॥८९॥ JanEducationatemation For Pesond er
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy