SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विशे० बृहद्वृत्तिः । ॥८८॥ यद् यस्मात् ततो वक्तुं शक्यात् तत् सर्वमपि मतिज्ञानोपलब्धमनेकगुणमनन्तगुणम् ।। इति गाथार्थः ।। १३७ ।। अत्र विनेयः प्राह कह मइ-सुओवलद्धा तीरंति न भासिउं, बहुत्ताओ । सव्वेण जीविएण वि भासइ जमणंतभागं सो ॥१३॥ नन्वनन्तरगाथायां मत्युपलब्धाः सर्वेऽपि वक्तुं न शक्यन्त इत्युक्तम् , पूर्वं तु श्रुतोपलब्धा अपि सर्वेऽभिधातुं न पार्यन्त इत्यभिहितम् । तदेतत् कथं, यद् मति-श्रुतोपलब्धा भावा न तीर्यन्ते भाषितुम् । अत्राह- बहुत्वात् प्राचुर्यात् । तत्रैतत् स्यात्- कुतः पुनरेतावद् बहुत्वं तेषां निश्चितम् ? इत्याह- यद् यस्मात् कारणात् सर्वेणाऽप्यायुषा स मति-श्रुतज्ञानी समुपलब्धानामर्थानामनन्ततममेव भागं भापत इत्यागमे निर्णीतम् , तस्माद् बहुत्वावगमः ॥ इति गाथार्थः ।। १३८ । अथ मत्याद्युपलब्धार्थानां सामस्त्येनाऽभिधानाशक्यत्वे पूर्वोक्तम् , अपरमपि च हेतुं विषयविभागेनाऽभिधित्सुराह तीरंति न वोत्तुं जे सुओबलहा बहुत्तभावाओ । सेसोवलद्धभावा साभवबर्हत्तओऽभिहिया ॥१३९॥ सर्वेऽपि श्रुतोपलब्धा भावा न तीर्यन्ते न पार्यन्ते वक्तुम् । 'जे' इति पूर्ववदेव । कुतस्ते वक्तुं न पार्यन्ते , इत्याह-बहुत्वभावाद् बहुत्वसद्भावादेवेत्यवधारणीयम् , न तु तत्स्वाभाव्यादित्यभिप्रायः । ' सेसोवलद्धभावा साभव्वत्ति' शेषं श्रुतादन्यत् प्रस्तुतं मतिज्ञानं, समानवक्तव्यताप्रस्तावलब्धानि मत्य-ऽवधि-मनःपर्याय-केवलानि वा शेषाणि तेन तैर्वा उपलब्धा ज्ञाताः शेषोपलब्धास्ते च ते भावाश्चेति समासः, स्वाभाव्यादेवाऽनभिलाप्यात्मकत्वादेव न तीर्यन्ते भाषितुम् ॥ आह- नन्वेते यथाऽनभिलाप्यत्वादभिधातुं न शक्यन्ते, तथा बहुत्वादपि, तत् किमित्यनभिलाप्यस्खभाक्त्वमेवैकमत्र हेतुत्वेनोच्यते । सत्यम् , किन्त्वभिलाप्यत्वे सति बहुत्वा-ऽज्यत्वचिन्ता क्रियमाणा विभ्राजते, ये तु मूलत एवाऽनभिलाप्यास्तेषु बहुत्वलक्षणो हेतुरुच्यमानोऽपि निष्फल एव, अनभिलाप्यात्मकत्वेनैवाऽभिधानाशक्यत्वस्य सिद्धत्वादिति ।। किञ्च, 'बहुत्तओऽभिहिय त्ति' | बहुत्वाच्छेषोपलब्धा भावा यथा वक्तुं न शक्यन्ते तथा 'केह मइसुओवलद्धा तीरन्ति न भासिउं, बहुत्ताओ' इत्याद्यनन्तरगाथायामभिहिता एव, इति किं बहुत्वहेतूपन्यासेन ?, पौनरुक्त्यप्रसङ्गात् । शेषज्ञानेषु मध्ये मतिरेव स तत्र प्रोक्तः, अत्र त्ववध्यादीन्यपि गृहीतानि सन्ति, अतस्तदर्थमयमिहापि वक्तव्य इति चेत् । नैवम् , मतेरुपलक्षणत्वेनाऽवध्यादिष्वप्यसौ तत्र द्रष्टव्य इत्यदोषः । यद्येवम् , तर्हि , कथं मतिश्रुतोपलब्धा तीर्यन्ते न भाषितुं, बहुत्वात् । सर्वेण जीवितेनाऽपि भाषते यदनन्तभागं सः ॥ १३८ ॥ २ तीर्यन्ते न वक्तुं श्रुतोपलब्धा बहुत्वात् । शेषोपलब्धभावा स्वाभाव्य-बहुत्वतोऽभिहिताः ॥ १३९॥ ३ गाथा १३८ । ॥८८ JanEducational Interme For Personal and Private Use Only www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy