SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विशे० ॥८७॥ अहव मई दव्वसुयत्तमेउ भावेण सा विरुज्झेज्जा । जो असुयक्खरलाभो तं मइसहिओ पभासेजा॥१३६॥ अथवा मतिद्रव्यश्रुतत्वमेतु- आगच्छतु न तत्र वयं निषेद्धारः, केवलमेतदेव निर्बन्धेनाऽभिदध्मो यदुत- भावेन भावश्रुतत्वेन सा मतिर्विरुध्येत दर्शितन्यायेन विरोधमनुभवेत् , इदमुक्तं भवति- 'केई बुद्धिद्दिढे मइसहिए भासओ सुयं' इत्यत्र गाथार्धे योऽसौ श्रुतशब्दः स यदि द्रव्यश्रुतवाचित्वेन व्याख्यायते तदा विरोधो न भवति । कथम् ?, इति चेत् । उच्यते- बुद्धिमतिस्तदृष्टान् मत्युपयोगसहितानर्थान् भाषमाणस्य सा मतिः शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वाद् द्रव्यश्रुतम् , अभाषमाणस्य तु मतिज्ञानम् , इत्येवं मति-द्रव्यश्रुतयोर्भेदः प्रोक्तो भवति, न तु मति-श्रुतज्ञानयोः केवलं विरोधपरिहारमात्रमित्थमुपकल्पितं भवति ॥ अत्राह कश्चित्- ननु यदि मत्युपयोगे वर्तमानो भाषेत कश्चित् , तदा द्रव्यश्रुतकारणत्वाद् मतिः स्याद् द्रव्यश्रुतम् , एतच न भविष्यति; इत्याह- 'जो असुयेत्यादि ' योऽश्रुतानुसार्यक्षरलाभः, तं मत्युपयोगे वर्तमानो भाषेत वक्ता, नात्र कश्चित् संदेहः, यस्तु श्रुतानुसार्यक्षरलाभस्तं श्रुतोपयोगे एव वर्तमानो भाषेत, अतो न तच्छब्दस्य मतिः कारणम् , श्रुतपूर्वत्वात् तस्येति भावः इदमुक्तं भवति- यः परोपदेशाद्वचनलक्षणं श्रुतमनुसृत्याऽक्षरलाभोऽन्तः स्फुरति तं श्रुतोपयोगे एव वर्तमानो भाषते, यस्त्वश्रुतानुसारी स्वमत्यैव पर्यालोचित इहा-ऽपायेषु स्फुरत्यक्षरलाभः, तं यदा मत्युपयोगसहित एव भापते, तदा तस्य शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वाद् भवत्येव मतिद्रव्यश्रुतम् ।। इति गाथार्थः ॥ १३६ ॥ अथाऽस्मिन्नेव मते व्यश्रुतत्वपक्षे 'ईयरत्थ वि होज सुयं' इत्यादौ मूलगाथाया उत्तरार्धे योऽर्थः संपद्यते तमाचार्यः प्रदर्शयन्नाह ईयरम्मि वि मइनाणे होज तयं तस्समं जइ भणेजा । न य तरइ तत्तियं सो जमणेगगुणं तयं तत्तो॥१३७॥ भाषमाणस्य मतिद्रव्यश्रुतमित्युक्तम् , अतोऽभाषमाणावस्थाभावि मतिज्ञानमितरत्रशब्दवाच्यं भवति । ततश्चेतरत्राप्यभाषमाणावस्थाभाविनि मतिज्ञाने भवेत् तद् द्रव्यश्रुतं यदि तत्सम मतिज्ञानोपलब्धिसमं भणेत् , यावद् मतिज्ञानेनोपलभते तावत् सर्व वदेदित्यर्थः एतच्च नास्ति । कुतः ? इत्याह-- न च नैव 'तरति' शक्नोति स यावद् मतिज्ञानेनोपलभते तावद् वक्तुम् । कुतः । इत्याह १ अथवा मतिईग्यश्रुतत्वमेतु भावेन सा विरुध्येत । योऽश्रुताक्षरलाभस्तं मतिसहितः प्रत॥ १३६॥ २ गाथा १३२ । ३ गाथा १२८ । ४ इसरस्मिन्नपि मतिज्ञाने भवेत् तत् तत्समं यदि भणेत् । न च ताशक्नोति) तावत् स यदेनकगुणं तत् ततः ॥ १३ ॥ Jan Education Interat For Personal and Private Use Only www.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy