SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विशे० गतिकाले शब्दमावत' अथवा अन्य विशेषः बृहद्वृत्तिः । ॥८६॥ भासापरिणइकाले मईए किमहियमहण्णहत्तं वा । भासासंकप्पविसेसमेत्तओ वा सुयमजुत्तं ॥१३॥ मतेरन्तर्विज्ञानविशेषस्य भाषापरिणतिकाले शब्दप्रारम्भवेलायां पूर्वावस्थातः किमधिकं रूपं संपद्यते ?, येनोभयावस्थायां सा ज्ञानान्तरं स्यात् श्रुतव्यपदेशः स्यादित्यर्थः । 'अहण्णहत्तं वेति' अथवा अन्यथात्वं किं मतेर्भाषापरिणतिकाले निर्मूलत एवाऽन्यथाभावः कः, येन श्रुतत्वं स्यात् , न कश्चिदिति भावः । भाषाऽऽरम्भ एवात्र विशेषः, इति चेत् । इत्याह-'भासेत्यादि' भाषायाः संकल्पप्रारम्भः स एव विशेषमात्र, मात्रशब्दो मनागपि विकारभवननिषेधार्थः, तस्माद् भाषासंकल्पविशेषमात्राद् मतेः श्रुतत्वमयुक्तम् । एतदुक्तं भवति-- अन्तर्विज्ञानस्य स्वयमविशिष्टस्य बाह्यक्रियारम्भादत्यन्तजातिभेदाभ्युपगमे धावन-वल्गन-करास्फोटनादिबाह्यक्रियाऽऽनन्त्याद् मतेरानन्त्यमेव स्यात् , स्वयं चाऽनुपजातविशेषाणां ज्ञानानां शब्दपरिणतिसंनिधानमात्रत एव ज्ञानान्तरत्वेऽतिप्रसङ्गः स्यात् , अवध्यादिष्वपि तथाप्राप्तेः ॥ इति गाथार्थः ।। १३४ ॥ तदेवं कैश्चिद् विहितं मूलगाथायाः पूर्वार्धव्याख्यानं दुषितम् , अथोत्तरार्धव्याख्यानमुपदर्य दूषयितुमाह ईयरत्थ वि मइनाणे होज सुयं ति किह तंसुयं होइ?। किह व सुयं होइ मई सलक्खणावरणभेयाओ॥१३५॥ 'बुद्धिद्दिष्टे अत्थे' इत्यत्र बुद्धिमतिज्ञानं व्याख्यातम् , तन्मतेन ' ईयरत्य वि होज सुयं उवलद्धिसमं जइ भणेज्जा' इत्युत्तरार्धगतस्येतरत्रशब्दस्य मतिज्ञानमेव वाच्यम् , शब्दसहितमते व्यभावश्रुतत्वेनोक्तत्वात् , तदितरस्य मतिज्ञानस्यैव तत्र संभवात् । ततश्च तद्व्याख्यानमनूद्य दूषयति- इतरत्रापि मतिज्ञाने श्रुतं भवेद् यापलब्धिसमं भाषेत इति यत्तरुच्यते, तदयुक्तम् , यतो हन्त ! यद् मतिज्ञानं, तत् कथं श्रुतं भवितुमर्हति ? । श्रुतं चेत् , कथं वा तद् मतिभवेत् । । कुतः पुनरित्थं न भवति ?, इत्याह-मति-श्रुतयोर्यत् खकीयं लक्षणं, कर्म चाऽऽवारकं, तयोर्भदेनाऽऽगमे प्रतिपादनात् । यदि च यदेव मतिज्ञानं तदेव श्रुतम् , यदेव च श्रुतं तदेव मतिज्ञानं स्यात्, तदा लक्षणा-ऽऽवरणभेदोऽपि तयोर्न स्यात् ।। इति गाथार्थः ॥ १३५ ॥ तदेवं 'बुद्धिद्दिढे अत्थे जे भासइ ' इत्यादिमूलगाथां मति-श्रुतभेदप्रतिपादनपरतया व्याचिख्यासोः परस्य ‘मति वश्रुतं न युज्यते ' इति प्रतिपादितम् । यदि तु द्रव्यश्रुतं साऽभ्युपगम्यते तदा न दोषः, इत्युपदर्शयन्नाह १ भाषापरिणतिकाले मत्या किमधिकमथाऽन्यथात्वं वा ? । भाषासंकल्पविशेषमात्रतो वा श्रुतमयुक्तम् ॥ १३ ॥ २ इतरत्रापि मतिज्ञाने भवेत् श्रुतमिति कथं तत् श्रुतं भवति ? । कथं वा श्रुतं भवति मतिः स्खलक्षणाऽऽवरणभेदात् ? ॥ १३५ ॥ ३ गाथा १२८ । Jan Education intem For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy