________________
HOOolrala
विशे०
बृहद्वत्तिः ।
॥८५॥
See
केई बुद्धिद्दिढे मइसहिए भासओ सुयं, तत्थ । किं सदो मइरुभयं भावसुयं सव्वहाऽजुत्तं ॥ १३२॥ . इह केचनाऽप्याचार्या मति-श्रुतयोर्भेदं प्रतिपिपादयिषवो 'बुद्धिद्दिढे अत्थे जे भासइ' इत्यादिमूलगाथायां 'बुद्धिः श्रुतबुद्धिः' इति न व्याख्यानयन्ति, किन्तु 'बुद्धिर्मतिः' इति व्याचक्षते । ततश्च बुझ्या मत्या दृष्टेषु बहुष्वर्थेषु मध्ये कांश्चित् तदृष्टानर्थान् मतिसहितान् भाषमाणस्य श्रुतं भवति ॥
आह- ननु मतिज्ञान्येव मतिसहितो भवति, तत् कथमर्थानां मतिसहितत्वं विशेषणम् । सत्यम् , किन्तु मूलगाथायां मईसहियं' इति वचनाद् मत्युपयोगे वर्तमानोऽत्र वक्ता गृह्यते, अतस्तस्य मत्युपयोगसहितत्वादनामप्युपचारतस्तत्सहितत्वमुच्यते । तस्माद् पतिज्ञानदृष्टानस्तदुपयुक्तस्यैव भाषमाणस्य श्रुतं भवतीति तात्पर्यम् ; अनुपयुक्तस्य तु वदतो द्रव्यश्रुतम् , पारिशेष्यादभाषमाणस्य पदार्थपर्यालोचनमात्ररूपं मतिज्ञानम् , इति मति-श्रुतयोर्भेदः । तदेवं कैश्चिद् मूलगाथायाः पूर्वार्धे व्याख्याते त्रिषणमाह-'तत्थ किं सद्दो इत्यादि' तत्र तैरेवं व्याख्याते भावश्रुतं सर्वथैवाऽयुक्तं स्यात् सर्वथा तदभावः प्रामोतीत्यर्थः, तथाहि- किं भाष्यमाणः शब्दो भावश्रुतम् , मतिर्वा, उभयं वा ? इति त्रयी गतिः । अस्य च त्रितयस्य मध्ये नैकमपि भावश्रुतं युक्तमिति भावः।।इति गाथार्थः॥१३२॥
कथम् ?, इत्याह
सैदो ता दव्वसुयं मइराभिणिबोहियं नवा उभयं । जुत्तं, उभयाभावे भावसुयं कत्थ तं किंवा ? ॥१३३॥
मत्युपयुक्तस्य शब्दमुदीरयतो यस्तावच्छब्दः स द्रव्यश्रुतमेव, इति कथं भावश्रुतं स्यात् ?, मतिस्त्वाभिनिबोधिकज्ञानम् । भवतु तर्हि मति-शब्दलक्षणमुभयं समुदितं भावश्रुतम् , इत्याह- 'नवा उभयं जुत्तं ति' नैव यथोक्तमुभयं समुदितमपि भावश्रुतं युक्तम्, प्रत्येकावस्थायां तद्भावाभावात् , न हि प्रत्येकं सिकताकणेष्वसत् तैलं समुदितावस्थायामपि भवतीति भावः । तदेवमुभयस्य खतन्त्रस्याऽस्वतन्त्रस्य वा भावश्रुतत्वेनाऽभावे सति तद् भावश्रुतं क शब्दादौ ?, किंवा तत् ?, न किञ्चिदिति भावः ॥ इति गाथार्थः ॥ १३३॥ ___ अथ भाषापरिणतिकाले मतेः किमप्याधिक्यमुपजायते, इत्युभयस्य श्रुतत्वं न विरुध्यते; इत्याह
केचिद् बुद्धिष्टान् मतिसहितान् भाषमाणस्य श्रुतं, तत्र । किं शब्दो मतिरभवं भावभुतं सर्वधाऽयुक्तम् ॥ १३२॥ २ गाथा १२८ । ३ शब्दस्तावद् प्रष्यश्रुतं मतिराभिनिबोधिकं नवोभयम् । युक्तं, उभयाभावे भावभुतं क तत् किंवा ! ॥ १२ ॥
॥८५॥
सपटकसमसालय
For Pesond
ere