________________
बृहद
विशे०
. ।। ८४॥
इत्यस्य तात्पर्यव्याख्यानमाह- श्रुतात्मकमतिसहितः श्रुतोपयुक्त इति यावत् , यान् भावान् प्रभाषते तद् द्रव्य-भावरूपमुभयश्रुतं भण्यते । यान् पुनरनुपयुक्तो भाषते तद् द्रव्यश्रुतं शब्दमात्रमेवेत्यर्थः । यांस्तु श्रुतबुद्ध्या पर्यालोचयत्येव केवलं, न तु भाषते, तद् भाव- श्रुतमित्यर्थाद् गम्यते ॥ इति गाथार्थः ।। १२९ ॥
उत्तरार्धव्याख्यानमाह
'इयरत्थ वि भावसुये होज तय तस्सम जइ भणिज्जा । न य तरइ तत्तियं सो जमणेगगुणं तयं तत्तो॥१३०॥
यद् भाषते तदुभयश्रुतं द्रव्यश्रुतं वेत्युक्ते भावश्रुतमेवेतरत्रशब्दवाच्यं गम्यते । ततश्चेतरत्राऽपि भावश्रुते भवेत् तद् द्रव्यश्रुतमुभयश्रुतं वा, यदि तत्सममुपलब्धिसम भणेत् , तच्च नास्ति, यस्माच्छुतज्ञानी स्वबुद्ध्या यावदुपलभते तावद् वक्तुं 'न तरति' न शक्नोति। कुतः, इत्याह-यद् यस्मात् कारणात् ततो भाषाविषयीकृताच्छूतात् तदशक्यभाषणक्रियं भावश्रुतमनेकगुणमनन्तगुणम् , अतो नोपलब्धिसम भणति ॥ इति गाथार्थः ॥ १३० ॥
उपलब्धिसममित्येतस्य समासविधिमाह
सेह उवलडीए वा उवलद्धिसमं तया व जं तुल्लं । जं तस्समकालं वा न सव्वहा तरइ वोत्तुं जे ॥१३॥
यद् भाषणमुपलब्ध्या सह वर्तते तदुपलब्धिसमम् , प्राकृतशैलीनिपातनात् सहस्य समभावः, या या श्रुतोपलब्धिस्तया तया सह यद् भाषणं तदुपलब्धिसममित्यर्थः, 'तया व जं तुलं ति' तया वोपलब्ध्या यत्तुल्यं समानं तदुपलब्धिसम-यावती काचिच्छ्रतोपलब्धिस्तत्तुल्यं तत्संख्यं यद्भाषणं तद् वोपलब्धिसममित्यर्थः । 'जं तस्समकालं वेति' तयोपलब्ध्या समकालं वा यद् भाषणं तदुपलब्धिसमम् , यथा मध्ये शूलं वेदयतस्तत्समकालमेवाऽन्यस्मै तन्यथाकथनम् , एवमन्तः सर्वामपि श्रुतोपलब्धिमनुभवतस्तत्समकालमेव यद् भाषणं तद् वोपलब्धिसममिति भावः। किंबहुना, सर्वथा सर्वस्मिन्नपि समासविधावयं तात्पयार्थः। कः?, इत्याह-श्रुतज्ञानी यावच्छूतबुद्धया समुपलभते, तावत् सर्वं न तरति न शक्नोति वक्तुम् । 'जे' इत्यलङ्कारमात्रे ॥ इति गाथार्थः ॥१३१॥ अथ कथं पुनरन्ये एतां गाथां मति-श्रुतभेदार्थे व्याख्यानयन्ति ?, इत्याह
इतरत्राऽपि भावभुते भवेत् तत् तत्समं वदि भणेत् । न च तरति (शक्नोति) तावत् स यदनेकगुण तत् ततः ॥ १३०॥ १ सहोपलब्ध्या वोपलब्धिसमं तथा वा अत् तुल्यम् । यत् तत्समकालं वा न सर्वथा तरति (शक्नोति) वक्तुम् ॥ १३ ॥
SOSORO
॥ ८४॥
प्रह
Saro
For Personal and Private Use Only