SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ८३ ॥ Jain Educations Internation श्रुतात्मकबुद्ध्युपलब्धानर्थास्तदुपयुक्तस्यैव वदतो द्रव्यश्रुतभावश्रुतरूपमुभयश्रुतं भवति, तच्छ्रुतमित्युक्तेऽपि सामर्थ्यादुभयश्रुतं लभ्यते 'जे भासइ' इत्यनेन शब्दरूपस्य द्रव्यश्रुतस्य सूचितत्वात् 'बुद्धिद्दिद्वे अत्थे' इत्यनेन, 'मईसहियं' इत्यनेन च भावश्रुतस्याऽभिधित्सितत्वादिति । तदेतावता 'सोइंदिओवलद्धी' इत्यादिगाथोक्तस्योभयश्रुतस्य स्वरूपमुक्तम्; यान् पुनः प्रथमं श्रुतबुद्ध्या दृष्टानपि पश्चादभ्यासवला देवाऽनुपयुक्तो वक्ति तद् द्रव्यश्रुतम् इत्येतावद् गाथायामनुक्तमपि सामर्थ्याद् गम्यते ; तथा यान् श्रुतबुद्ध्या पश्यत्येव, न तु मनसि स्फुरतोऽपि भाषते तद् भावश्रुतम् इतीदमपि स्वयमेवाऽवगन्तव्यम् । तदेतावता किं तद् द्रव्यादिश्रुतम् १, कथं वा तद् भवति ?, इत्येवं चिन्तितम् । अथ 'को वा भावसुयंसो' इत्यादि चिन्त्यते तत्र भावश्रुतमुभयश्रुताद् द्रव्यश्रुताच्चाऽनन्तगुणम्, एतस्मात्तूभयश्रुतं द्रव्यश्रुतं चानन्ततमे भागे वर्तत इति भावनीयम्, वाचः क्रमवर्तित्वात्, आयुषश्च परिमितत्वात् सर्वेषामपि भावश्रुतविषयभूतानामर्थानामनन्ततममेव भागं वक्ता भाषत इति भावः । ततश्च भावश्रुतस्याऽनन्ततम एव भागो द्रव्यश्रुतत्वेनोभयश्रुतत्वेन च परिणमतीत्युक्तं भवति । एतच्च सर्वमनन्तरमेव भाष्यकारः स्वयमेव विस्तरतो भणिष्यतीत्यलं विस्तरेण ॥ आह- ननु यानुपयुक्तो भाषते तदुभयश्रुतम्, यांस्त्वनुपयुक्तो वक्ति तद् द्रव्यश्रुतमित्युक्तम् ; यांस्तर्हि न भाषते, केवलं श्रुतबुद्ध्या पश्यत्येव, तत्रापि द्रव्यश्रुतरूपता, उभयश्रुतरूपता च किमिति नेष्यते ? ; इत्याशङ्क्याह-' इयरत्थ वीत्याद्युत्तरार्ध' 'जे भासइ तं सुयं ' इत्युक्ते तत्प्रतियोगिस्वरूपमभाषमाणावस्थाभावि भावश्रुतमेव इतरत्र शब्दवाच्यं भवति । ततश्चायमर्थः- द्रव्यश्रुतोभयश्रुताभ्यामितरत्रापि भावश्रुते भवेत् श्रुतं द्रव्यश्रुतरूपता, उभयश्रुतरूपता वा भवेदित्यर्थः । यदि किं स्यात् ?, इत्याह-उपलम्भनमुपलब्धिस्तत्समं तत्प्रमाणं यदि भणेत् यावद् वस्तुनिकुरम्यमुपलभते तावत्सर्वमुपयुक्तोऽनुपयुक्तो वा यदि वदेदित्यर्थः एतच्च नास्ति, श्रुतोपलब्ध्या उपलब्धानामर्थानामनन्तत्वात्, वाचः क्रमवर्तित्वात्, आयुषश्च परिमितत्वादिति । तस्मादभिलाप्यानां श्रुतोपलब्ध्या समुपलब्धानां भावानां मध्यात् सर्वेणापि जन्मनाऽनन्ततममेव भागं भाषते वक्ता, अतस्तत्रैवाऽनुपयुक्तस्य वदतो द्रव्यश्रुतरूपता, उपयुक्तस्य तु वदतउभयश्रुतरूपता भवेत्, नेतरत्र भावश्रुते, भाषणस्यैवाऽसंभवात् । इति पूर्वगतगाथार्थः ॥ १२८ ॥ वृहद्वृत्तिः। तदेवं व्याख्याताऽस्माभिरियं गाथा, सांप्रतं भाष्यकारस्तत्र्याख्यानमाह जे सुबुद्धिद्दिट्ठे सुयमइसहिओ पभासई भावे । तं उभयसुयं भन्नइ दव्वसुयं जे अनुवउत्तो ॥ १२९ ॥ गतार्थैव, नवरं सुखार्थं किञ्चिद् व्याख्यायते श्रुतरूपा यका बुद्धिस्तया दृष्टाः पर्यालोचिता ये भावास्तन्मध्याद् 'मॅईसहियं ' १ गाथा ११७ । २ गाथा १२७ । ३ यान् श्रुतबुद्धिदृष्टान् श्रुतमतिसाहितः प्रभाषते भावान् । तदुभयश्रुतं भण्यते द्रव्यश्रुतं याननुपयुक्तः ॥ १२९ ॥ ४ गाथा १२८ । १॥ ८३ ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy