SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ विशे० द्वत्तिः । ॥८२॥ सोऽपि च शेषेन्द्रियाक्षरलाभः स एव श्रुतं, यः किम् ?, इत्याह- यः श्रुताक्षराणां लाभः, न सर्वः, यः संकेतविषयशब्दानुसारी, सर्वज्ञवचनकारणो वा विशिष्टः श्रुताक्षरलाभः, स एव श्रुतम् , न त्वश्रुतानुसारी; इहा-पायादिषु परिस्फुरदक्षरलाभमात्रमित्यर्थः । 'जइ व त्ति' यदि पुनरक्षरलाभस्य सर्वस्यापि श्रुतेन क्रोडीकरणादनक्षरैव मतिरभ्युपगम्येत, तदा सा यथाऽवग्रहे-हा-ऽपायधारणारूपा सिद्धान्ते प्रोक्ता, तथा सर्वाऽपि न प्रवर्तेत सर्वापि मतित्वं नानुभवेदित्यर्थः, किन्त्वनक्षरत्वादवग्रहमात्रमेव मतिः स्यात् , न त्वीहादयः, तेषामक्षरलाभात्मकत्वात् । तस्माच्छूतानुसार्येवाऽक्षरलाभः श्रुतम् , शेषं तु मतिज्ञानम् ॥ इति गाथार्थः ।। १२६ ॥ तदेवं व्याख्याता भाष्यकृताऽपि 'सोइंदिओवलद्धी' इत्यादिगाथा; सांप्रतं त्वस्यां यः श्रुतविषयः पर्यवसितोऽर्थः प्रोक्तो । भवति, तं संपिण्डयोपदर्शयति देव्वसुयं भावसुयं उभयं वा किं कहं व होज्ज त्ति । को वा भावसुयंसो दवाइसुयं परिणमेज्जा ? ॥१२७॥ इह 'सोइंदिओवलद्धी' इत्येतस्यां गाथायां 'मोत्तूणं दव्वसुर्य' इत्यनेन पुस्तकादिन्यस्तं द्रव्यश्रुतमुक्तम् , अक्षरलाभवचनातु भावश्रुतम् , श्रोत्रेन्द्रियोपलब्धिवचनेन तु शब्दः, तद्विज्ञानं चेत्युभयश्रुतमुक्तम् । तत्राऽनन्तरवक्ष्यमाणपूर्वगतगाथायामेतचिन्त्यते-किं तद् द्रव्यादिश्रुतम् ?, कथं वा तद् भवति ?, को वा कियान् वेत्यर्थः, भावश्रुतस्यांशो भागो द्रव्यश्रुतं द्रव्यश्रुतरूपतया, आदिशब्दादुभयश्रुतरूपतया वा परिणमेत् । ॥ इति गाथार्थः ॥ १२७ ॥ का पुनरसौ पूर्वगतगाथा ?, इत्याह बुद्धिद्दिढे अत्थे जे भासइ तं सुयं मईसहियं । इयरत्थ वि होज सुयं उवलद्धिसमं जइ भणेजा ॥१२८ ॥ मति-श्रुतयोर्भेदोत्र विचार्यत्वेन प्रस्तुतः, इत्यतः केचिदेतां गाथां तदनुयायित्वेन व्याख्यानयन्ति; भाष्यकारस्तु तेनाऽपि प्रकारण पश्चाद् व्याख्यास्यति, सांप्रतं तु प्रस्तावनाऽनुयायित्वेन तावद् व्याख्यायते- तत्र बुद्धिः श्रुतरूपेह गृह्यते, तया दृष्टा गृहीताः पर्यालोचिता बुद्धिदृष्टा अभिलाप्या अर्थाः पदार्थाः, ते च बहवः सन्ति, अतस्तन्मध्याद् वक्ता यान् भाषते वक्ति तच्छ्रुतम् । कथं यान् भाषते ?, इत्याह- मतिः श्रुतोपयोगरूपा तत्सहितं यथा भवति, एवं यान् भावान् भाषते तच्छूतमुभयरूपमित्यर्थः । इदमुक्तं भवति १ गाथा ११७। २ अन्यधुतं भावभुतमुभयं वा किं कथं वा भवेदिति । को या भावभुतांशी द्रव्यादिश्रुतं परिणमेत् ॥ १२ ॥ ३ बुद्धिरष्टेऽर्थे यान् भाषते तत् श्रुतं मतिसहितम् । इतरत्राऽपि भवेत् श्रुतमुपलब्धिसमं यदि भणेत् ॥ १२८ ॥ For Pesem Pre Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy