________________
LA
HOM
बहतचिः ।
विशे ॥८१॥
तथा पुस्तक-पत्रादिन्यस्तमपि तत्कारणत्वाद् द्रव्यश्रुतमित्यर्थः। तद् मुक्त्वा शेषं शेषचक्षुरादीन्द्रियोपलब्धिरूपं मतिज्ञानम् । 'भावसुयमक्खराणमित्यादि न केवलं श्रोत्रेन्द्रियोपलब्धिःश्रुतम् , यश्च श्रुतानुसारित्वाद् भावश्रुतं भावश्रुतरूपः शेषेषु चक्षुरादीन्द्रियेष्वक्षराणां लाभः परोपदेशाहद्वचनानुसारिण्यक्षरोपलब्धिरित्यर्थः, सोऽपि श्रुतम् , इत्येवं मूलगाथायां संबन्धः कार्य इति हृदयम् , स च प्राग वृत्ती | कृत एव । तस्माचाक्षरलाभाच्चक्षुरादीन्द्रियेषु यच्छेषमश्रुतानुसार्यवग्रहे-हाद्युपलब्धिरूपं, तद् मतिज्ञानम् , इत्येवमिहाऽप्येतत् संबध्यते ॥ इति गाथार्थः ॥ १२४ ॥
अथ परः पूर्वापरविरोधमुद्भावयन्नाह
जइ सुयमक्खरलाभो न नाम सोओवलद्धिरेव सुयं । सोओवलद्धिरेवक्खराइं सुइसंभवाउ त्ति ॥ १२५ ॥
इयमपि प्राग मूलगाथावृत्तौ दर्शिताथैव, तथापि विस्मरणशीलानामनुग्रहार्थ किश्चिद् व्याख्यायते । ननु याक्तन्यायेन शेषेन्द्रियाक्षरलाभोऽपि श्रुतम् , तर्हि 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्' इति यदवधारणं कृतं, तदसङ्गतं पामोति, शेषेन्द्रियाक्षरलाभस्यापि श्रुतत्वात् । अत्रोत्तरमाह- 'सोओवलद्धिरेवेत्यादि' यद्यसौ शेषेन्द्रियाक्षरलाभोऽपि श्रोत्रेन्द्रियोपलब्धिर्न स्यात् , तदा स्यादेवावधारणमसंगतम् , तच्च नास्ति, यतः शेषेन्द्रियद्वाराऽऽयातज्ञानेऽपि प्रतिभासमानान्यक्षराणि श्रोत्रेन्द्रियोपलब्धिरेव ॥
अहो ! महदाश्चर्य, यतो यदि शेषेन्द्रियाक्षरलाभः, कथं श्रोत्रोपलब्धिः?; सा चेत्, कथं शेषेन्द्रियाक्षरलाभः ?, इत्या| शङ्कयाह-'सुइसंभवाउ त्ति' शेषेन्द्रियज्ञानप्रतिभासभाञ्जि अक्षराणि श्रोत्रोपलब्धिरेव । कुतः१, इत्याह- तेषां श्रुतेः श्रवणस्य संभवात् , इदमुक्तं भवति- अभिलापरूपाणि ह्येतान्यक्षराणि, अभिलापश्च तस्मिन् वा विवक्षिते काले, अन्यदा वा तत्र वा विवक्षिते पुरुषे, अन्यत्र वा श्रवणयोग्यत्वाच्छ्रोत्रेणोपलभ्यते । अतः श्रोत्रोपलम्भयोग्यत्वेन श्रुतिसंभवात् सर्वोऽप्यभिलापः श्रोत्रोपलब्धिरेव; इति न किश्चिदवधारणं विरुध्यते ॥ इति गाथार्थः ॥ १२५॥
किं सर्वोऽपि शेषेन्द्रियाक्षरलाभः श्रुतम् , आहोस्वित् कश्चिदेव ?, इत्याहसोऽवि हु सुयक्खराणं जो लाभो तं सुयं मई सेसा। जइ वा अणक्खरच्चिय सा सव्वान प्पवत्तेज्जा ॥१२६॥
, यदि श्रुतमक्षरलाभो न नाम श्रोत्रोपकब्धिरेव श्रुतम् । श्रोत्रोपलब्धिरेवाऽक्षराणि श्रुतिसंभवादिति ॥ १२५ ॥ २ सोऽपि खलु श्रुताक्षराणां यो लाभस्तत् श्रुतं मतिः शेषः । यदि वाऽनक्षरव सा सर्वा न प्रवर्तेत ॥ १२६ ॥
॥८॥
For on Present