SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विशे बदत्तिः। ॥८ ॥ सोइंदिओवलद्धी चेव सुयं न उ तई सुयं चेव । सोइंदिओवलद्धी वि काइ जम्हा मइन्नाणं ॥ १२२॥ इह श्रोत्रेन्द्रियोपलब्धिशब्दस्य तृतीया-षष्ठीसमासः, बहुव्रीहिश्च आद्यसमासयन भावश्रुतम् , बहुव्रीहिणा तु भावश्रुतानुपयुक्तस्य वदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु ब्रुवत उभयश्रुतं गृहीतमिति प्राग्वृत्तौ दर्शितं सर्व द्रष्टव्यम् । अवधारणविधिमपि प्रागुपदर्शितमाह- 'श्रोत्रेन्द्रियोपलब्धिरेच श्रुतं ' इत्येवमवधारणीयम् । 'न उ तई ति ' न पुनः ‘सा श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति । कुतो | नैवमवधार्यते ?, इत्याह- यस्माच्छ्रोत्रेन्द्रियोपलब्धिरपि काचिदश्रुतानुसारिणी अवग्रहे-हादिमात्ररूपा मतिज्ञानमेव, अतः 'श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति नावधार्यत इति भावः । एवं च सति ‘ने नाम सोउग्गहादओ बुद्धी' इत्यादि परेण यत् प्रेरितं, तत् परिहृतं भवति, श्रोत्रावग्रहादीनामपि बुद्धिरूपतायाः समर्थितत्वात् ।। इति गाथार्थः ।। १२२ ॥ तदेवमवधारणविधिना श्रोत्रावग्रहादीनां मतित्वं समर्थितम् , यदि वा 'सेसयं तु मइनाणं' इत्यत्र योऽसौ तुशब्दः, ततोऽपि तेषां तत् समर्थ्यत इति दर्शयन्नाह तुसमुच्चयवयणाओ व काई सोइन्दिओवलद्धी वि । मइरेवं सइ सोउग्गहादओ हुन्ति मइभेया ॥ १२३ ॥ सेसयं तु मइनाणं' इत्यत्र योऽसौ तुशब्दः समुच्चयवचनः, ततश्च किमुक्तं भवति ?-शेष मातिज्ञानं, काचिदनपेक्षितपरोपदेशाद्वचना श्रोत्रेन्द्रियोपलब्धिश्च मतिज्ञानमित्येवं वा श्रोत्रावग्रहादयो भवन्ति मतिभेदाः । तथा च सति मतेरष्टाविंशतिभेदत्वं न परिहीयते, ततश्च 'नं नाम सोउम्गहादओ बुद्धी' इत्यादि परप्रेर्य प्रतिक्षिप्तमेव ॥ इति गाथार्थः ॥ १२३ ॥ मूलगाथाया व्याख्यातशेष व्याख्यानयनाह पत्ताइगयं सुयकारणं ति सद्दो व्व तेण दव्वसुयं । भावसुयमक्खराणं लाभो सेसं मइन्नाणं ॥ १२४ ॥ मूलगाथायां 'श्रोत्रावग्रहादयः, शेषकं च मतिज्ञानम् , इत्युक्ते शेषस्य सर्वस्याऽप्युत्सर्गतो मतित्वे प्राप्ते, अपवादः- मोत्तूणं दव्वसुयं ति' इत्युक्तम् । तत्र किं तद् द्रव्यश्रुतं यदिह वय॑ते ?, इत्याह भाष्यकार:-पत्रादिगतं पुस्तक-पत्रादिलिखितम् , तेन कारणेन द्रव्यश्रुतं, येन किं ?, इत्याह- श्रुतकारणमिति । किंवत् ?, इत्याह-शब्दवदिति यथा भावश्रुतकारणत्वाच्छब्दो द्रव्यश्रुतम् , १ श्रोत्रेन्द्रियोपलब्धिश्चैव श्रुतं न तु सा श्रुतं चैव । श्रोत्रेन्द्रियोपलब्धिरपि काचिद् यस्मात् मतिज्ञानम् ॥ १२२॥ २ गाथा ११८ । ३ गाथा ११७ । ४ तुसमुच्चयवचनाद् वा काचिच्छोनेन्द्रियोपलब्धिरपि । मतिरेवं सति श्रेत्रावग्रहादयो भवन्ति मतिभेदाः ॥ १२३ ॥ ५ पत्रादिगतं श्रुतकारणमिति शब्द इव तेन द्रव्यश्रुतम् । भावभुतमक्षराणां लाभः शेष मतिज्ञानम् ॥ १२४ ॥ Forsonal Prese Only व w w.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy