________________
विशे०
बृहद्वतिः ।
॥ ७९ ॥
सससससाखाका
दूषणान्तरमप्याह
'किंवा नाणेऽहिगए सद्देणं जइ य सद्दविन्नाणं । गहियं तो को भेयो भणओ सुणओव जो तस्स ?॥१२०॥
यदि वा ज्ञाने ज्ञानविचारधिकृते किं पुद्गलसङ्घातरूपेण शब्देन गृहीतेन कार्यम् , अप्रस्तुतत्वात् ।। अथ श्रोत्रेन्द्रियोपलब्धिशब्देन शब्दविज्ञानं गृह्यत इति । अत्राह- 'जइ येत्यादि' यदि च श्रोत्रेन्द्रियोपलब्धेः शब्दस्य कारणभूतत्वात् कार्यभूतत्वाच्चोपचारतो वक्तगतं श्रोतृगतं च शब्दविज्ञानं श्रोत्रेन्द्रियोपलब्धिशब्दवाच्यत्वेन गृहीतम् , तच्च ब्रुवतः श्रुतं शृण्वतस्तु मतिरित्युच्यते । हन्त ! ततस्तर्हि तस्य विज्ञानस्य ब्रुवतः शृण्वतो वा यो भेदो विशेषः, स कः? इति कथ्यताम् , येन तद् ववतुः श्रुतं, श्रोतुश्च मतिः स्यात् ? इति नास्त्यसौ विशेषः, शब्दज्ञानत्वाविशेषादिति भावः । किञ्च, एवं सति श्रोतुरपि कदाचिच्छृत्यनन्तरमेव ब्रुवतः सैव शब्दजनिता तन्मतिरखशिष्टा श्रुतं प्रसजति 'बेन्तस्स सुयं' 'सुणओ मई' इत्यभ्युपगमात् । ततश्च तदेवैकत्वं मति-श्रुतयोः, इति कोऽतिशयः कृतः स्यात् ? इति । किश्न, यदि शृण्वतः सर्वदैव मतिरित्ययमेकान्तः, तर्हि यदेतद् व्यक्तं सर्वत्रोच्यते- आचार्यपारम्पर्येणेदं श्रुतमायातमिति, तदसत् प्राप्नोति, तीर्थकरादर्वाक् सर्वेषामपि श्रोतृत्वेन मतिज्ञानस्यैवोपपत्तेः । अथ नैवम् , तर्चेकत्वं मति-श्रुतयोः ॥ इति गाथार्थः ।। १२०॥
तदेवं केई बेन्तस्स सुर्य' इत्यादि दूषयित्वा प्रस्तुतप्रकरणोपसंहारव्याजेन परमेव शिक्षयन्नाह
भणओ सुणओ व सुयं तं जमिह सुयाणुसारि विण्णाणं । दोण्हं पि सुयाईयं जं विन्नाणं तयं बुद्धी ॥१२१॥
तस्माद् ‘ब्रुवतः श्रुतं, शृण्वतस्तु मतिः' इत्येतद् न युक्तम् , उक्तदूषणात् , अनागमिकत्वाच्च । किं तर्हि युक्तम् ? इति चेत् । उच्यते- भणतः शृण्वतो वा यत् किमपि श्रुतानुसारि परोपदेशाहद्वचनानुसारि विज्ञानं, तदिह सर्व श्रुतम् , यत् पुनयोरपि वक्तृश्रोत्रोः श्रुतातीतं हृषीक-मनोमात्रनिमित्तमवग्रहादिरूपं विज्ञानं, तत् सर्व बुद्धिर्मतिज्ञानमित्यर्थः । तदेवं द्वयोरपि वक्तृ-श्रोत्रोः प्रत्येक मति-श्रुते यथोक्तस्वरूपे अभ्युपगन्तव्ये, न पुनरेकैकस्यैकैकमिति भावः ॥ इति गाथार्थः ॥ १२१ ॥
भवत्वेवम् , किन्तु 'सोओवलद्धी जइ सुयं न नाम सोउग्गहादओ बुद्धी' इत्यादिना यः परेण पूर्वपक्षो व्यधायि, तस्य तर्हि का परिहारः ? इत्याशक्य भाष्यकार एवेदानीं 'सोइंदिओवलद्धी होइ सुयं' इत्यादिमूलगायां विवृण्वन्नाह१ किंवा ज्ञानेऽधिकृते शब्देन, यदि च शब्दविज्ञानम् । गृहीतं ततः को भेदो भणतः शृण्वतश्च यस्तस्य ? ॥ १२० ॥ २ गाथा ११९ ।
- ३ भणतः शृण्वतो वा श्रुतं तद् यदिह श्रुतानुसारि विज्ञानम् । द्वयोरपि श्रुतातीतं यद् विज्ञानं तद् बुद्धिः॥ २१ ॥ ४ गाथा ११८ । ५ गाथा ११७ ।
॥७९॥
8AOORDAR
J
unonin
For Personal and Private Use Only
www.janeltrary.org