SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सोओवलद्दी जइ सुर्य न नाम सोउग्गहादओ बुद्धी । अह बुद्धीओ न सुयं अहोभयं संकरो नाम ॥११॥ विशे० 'श्रोत्रोपलब्धिरेव श्रुतम्' इत्यवधारणार्थमनवगच्छतः 'श्रुतमेव तदुपलब्धिः ' इत्येवं च तदर्थमवबुध्यमानस्य परस्य वचनमि- बृहदृषि दम् , तद्यथा- यदि श्रोत्रोपलब्धिः श्रुतमेव, तर्हि 'नाम' इति कोमलामन्त्रणे, अहो ! श्रोत्रेन्द्रियद्वारोत्पन्ना अवग्रहे-हादयो बुद्धिर्मतिज्ञानं न प्राप्नुवन्ति, तदुपलब्धेः सर्वस्या अपि श्रुतत्वेनाऽवधारणात् । मा भूवंस्ते मतिज्ञानम् , किं नः श्रूयते ? इति चेत् । नैवम् , तथा - सति तस्य वक्ष्यमाणाऽष्टाविंशतिभेदभिन्नत्वहानेः। अथैतद्दोषभयाद् बुद्धिस्तेऽभ्युपगम्यन्ते, ततस्तर्हि न ते श्रुतम् , तथा च सति | 'सोइन्दिओवलद्धी होइ सुर्य' इत्यसंगतं पामोति । अथोभयदोषपरिहारार्थ 'उभयं' बुद्धिश्च श्रुतं च ते इष्यन्ते । तयेवं सत्येकRA स्थानमीलितक्षीर-नीरयोरिव संकरः संकीर्णता मति-श्रुतयोरामोति, न पृथग्भावः । अथवा 'यदेव मतिस्तदेव श्रुतं, यदेव च श्रुतं तदेव |मतिः' इत्येवमभेदोऽप्यनयोः स्यात् , इति खयमेव द्रष्टव्यम् । भेदचेह तयोः प्रतिपादयितुं प्रस्तुतः, तदेतच्छान्तिकरणप्रवृत्तस्य वेतालोत्थानम् ॥ इति प्रेरकगाथार्थः ॥ ११८ ॥ तदेतत् प्रेर्य केचिद् यथा परिहरन्ति , तथा तावद् दर्शयन्नाह केई बेन्तस्स सुयं सद्दो सुणओ मइ ति, तं न भवे । जं सव्वो च्चिय सद्दो दव्वसुयं तस्स को भेयो ? ॥११९॥ 'सोइंदिओवलद्धी' इत्यत्र श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति केवलबहुव्रीह्याश्रयणात् श्रोत्रेन्द्रियोपलब्धिः शब्द एवेति केचिद् । मन्यन्ते, स च प्रज्ञापकस्य ब्रुवतः श्रूयत इति कृत्वा श्रुतम् , शृण्वतस्तु श्रोतुरवग्रहे-हा-पायादिरूपेण मन्यते ज्ञायत इति मतिः । एवं च सत्युभयमुपपन्नं भवति, श्रोतृगताऽवग्रहादीनां च श्रुतत्वं परिहृतं भवति । आचार्यः प्राह- 'तं न भवे त्ति' तदेतत् केषाश्चिद् मतं युक्तं न भवति । कुतः१, इत्याह- यद् यस्मात् कारणाद् ब्रुवतः श्रोतुश्च संबन्धी सर्व एव शब्दो द्रव्यश्रुतम् , द्रव्यश्रुतमात्रत्वेन च सर्वत्र तुल्यस्य सतस्तस्य शब्दस्य को भेदः को विशेषः, येनासौ वक्तरि श्रुतं, श्रोतरि तु मतिः स्यात् ? । यदपि 'श्रूयत इति श्रुतं' 'मन्यत इति मतिः उच्यते, तत्रापि धात्वन्तरमात्रकृत एव विशेषः, शब्दस्तु स एव श्रूयते स एव मन्यते, इति न कचिदुभयं दृश्यते ॥ इति गाथार्थः ॥ ११९ ॥ श्रोत्रोपलब्धियदि श्रुतं न नाम श्रोत्रावग्रहादयो बुद्धिः । अथ बुद्धयो न श्रुतमयोभयं संकरो नाम ॥ १८ ॥२ गाथा ११७। ३ केचिद् ब्रुवतः श्रुतं शब्दः शृण्वतो मतिरिति, तद् न भवेत् । यत् सर्व एव शब्दो द्रव्यधुतं तस्य को भेदः ॥ १९॥ सकसकालमा ॥ ७८॥ Forsonal Prese Only www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy