SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ७७॥ श्रुतानुसारिण्यास्तु श्रुतत्वादितिः यदि पुनः श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेत्यवधार्यते, तदा तदुपलब्धेर्मतित्वं सर्वथैव न स्यात् , इध्यते च कस्याश्चित् तदपीति भावः । यदि श्रोत्रेन्द्रियोपलब्धिः श्रुतम् , तर्हि शेषं किं भवतु ?, इत्याह- 'सेसयं वित्यादि' श्रोत्रेन्द्रियोपलब्धि विहाय शेषकं यच्चक्षुरादीन्द्रियचतुष्टयोपलब्धिरूपं तद् मतिज्ञानं भवति' इति वर्तते । तुशब्दः समुच्चये, स चैवं समुचिनोति न केवलं शेषेन्द्रियोपलब्धिर्मतिज्ञानम् , किन्तु श्रोत्रेन्द्रियोपलब्धिश्च काचिदवग्रहे-हादिमात्ररूपा मतिज्ञानं भवति; तथा च सत्यनन्तरमवधारणव्याख्यानमुपपन्नं भवति । 'सेसयं तु मइनाणं' इति सामान्येनैवोक्ते शेषस्य सर्वस्याऽप्युत्सर्गेण मतित्वे प्राप्ते सत्यपवादमाह'मोत्तूणं दब्बसुयं ति' पुस्तकादिलिखितं यद् द्रव्यश्रुतं तद् मुक्त्वा परित्यज्यैव शेषं मतिज्ञानं द्रष्टव्यम् , पुस्तकादिन्यस्तं हि भावश्रुतकारणत्वात् शब्दवद् द्रव्यश्रुतमेव, इति कथं मतिज्ञानं स्यात् ?, इति भावः। न केवलं श्रोत्रेन्द्रियोपलब्धिः श्रुतम् , किन्तु यश्च शेपेषु चतुषु चक्षुरादीन्द्रियेषु श्रुतानुसारिसाभिलापविज्ञानरूपोऽक्षरलाभः सोऽपि श्रुतम् , न त्वक्षरलाभमात्रम्। तस्येहा-ऽपायाद्यात्मके मति| ज्ञानेऽपि सद्भावादिति ॥ आह- यदि चक्षुरादीन्द्रियाक्षरलाभोऽपि श्रुतम् , तर्हि यदाद्यगाथावयवे 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम् ' इत्यवधारणं कृतम् , तद् नोपपद्यते, शेषेन्द्रियोपलब्धेरपीदानी श्रुतत्वेन समर्थितत्वात् । नैतदेवम् , शेषेन्द्रियाक्षरलाभस्यापि श्रोत्रेन्द्रियोपलब्धिरूपत्वात् , स हि श्रुतानुसारिसाभिलापज्ञानरूपोत्राधिक्रियते, श्रोत्रेन्द्रियोपलब्धिरपि चैवंभूतैव श्रुतमुक्ता । ततश्च साभिलापविज्ञानं शेषेन्द्रियद्वारेणाऽप्युत्पन्न योग्यतया श्रोत्रेन्द्रियोपलब्धिरेव मन्तव्यम् , अभिलापस्य सर्वस्यापि श्रोत्रेन्द्रियग्रहणयोग्यत्वादिति ॥ अत्राह- ननु 'सोइंदिओवलद्धी होइ सुयं ' ' तथा 'अक्खरलम्भो य सेसेसु' इत्युभयवचनाच्छूतज्ञानस्य सर्वेन्द्रियनिमित्तता सिद्धा, तथा 'सेसयं तु मइनाणं' इति वचनात् , तुशब्दस्य समुच्चयाच्च मतिज्ञानस्यापि सर्वेन्द्रियकारणता प्रतिष्ठिता: भवद्भिस्त्विन्द्रियविभागाद् मति-श्रुतयोर्भेदः प्रतिपादयितुमारब्धः, स चैवं न सिध्यति, द्वयोरपि सर्वेन्द्रियनिमित्ततायास्तुल्यत्वप्रतिपादनादिति । अत्रोच्यते- साधूक्तं भवता, किन्तु यद्यपि शेषेन्द्रियद्वाराऽऽयातवात् तदक्षरलाभः शेषेन्द्रियोपलब्धिरुच्यते, तथाऽप्यभिलापास्मकत्वादसौ श्रोत्रेन्द्रियग्रहणयोग्य एव, ततश्च तत्त्वतः श्रोत्रेन्द्रियोपलब्धिरेवाऽयम् । तथा च सति परमार्थतः सर्वं श्रोत्रविषयमेव श्रुतज्ञानम् , मतिज्ञानं तु तद्विषयं शेषेन्द्रियविषयं च सिद्धं भवतिः अत इत्थमिन्द्रियविभागाद् मति-श्रुतयोर्भेदो न विहन्यते; इत्यलं विस्तरेण ।। इति पूर्वगतगाथासंक्षेपार्थः॥ ११७॥ अथ विस्तरार्थमभिधित्सुर्भाष्यकार एव परेण पूर्वपक्षं कारयितुमाह AN॥ ७७ SSES For Personal d e sem
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy