________________
विशे०
बृहद्वत्तिः ।
॥७६ ॥
धारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वप्राप्तेः । तस्मात् सद-सताविशेषाभावादुन्मत्तकस्येव मिथ्यादृष्टोधोऽज्ञानम् । तथा विपर्यस्तत्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवधहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवध-तिलादिदहन-जलाधवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेः, दया-प्रशम-ब्रह्मचर्या-ऽऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याऽज्ञानम् । तथा विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानम् ॥ इति गाथार्थः ॥ ११५॥
तदेवं समसङ्गः प्रतिपादितो हेतु-फलभावादपि मति-श्रुतयोर्भेदः, सांप्रतं भेदभेदात् तयोस्तमभिधातुमाह
'भेयकयं च विसेसणमट्ठावीसइविहंगभेयाइ । इंदियविभागओ वा मइ-सुयभेयो जओऽभिहियं ॥११६॥
भेदा अवग्रहादयः, अङ्गा-ऽनङ्ग्यविष्टत्वादयश्च, तत्कृतं वा मति-श्रुतयोर्विशेषणं भेदः, यतोऽवग्रहादिभेदादष्टाविंशत्यादिविध मतिज्ञानं वक्ष्यते' इति शेषः, श्रुतज्ञानं त्वङ्गाऽनङ्गप्रविष्टत्वादिभेदमभिधास्यते । अथवा इन्द्रियविभागाद् मति-श्रुतयोर्भेदः, यतोऽन्यत्र पूर्वगतेऽभिहितम् ॥ इति गाथार्थः ॥११६ ॥
किमभिहितम् ?, इत्याह__ सौइंदिओवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दव्वसुयं अक्खरलंभो य सेसेसु ॥ ११७ ॥
इन्द्रो जीवस्तस्येदमिन्द्रियम् , श्रूयतेऽनेनेति श्रोत्रम् , तच्च तदिन्द्रियं चेति श्रोत्रेन्द्रियम् , उपलम्भनमुपलब्धिानम् , श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति तृतीयासमासः, श्रोत्रेन्द्रियस्य वोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति षष्ठीसमासः, श्रोत्रेन्द्रियद्वारकं ज्ञानमित्यर्थः, श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति बहुव्रीहिणाऽन्यपदार्थे शब्दोऽप्यधिक्रियते । ततश्चाद्यसमासद्वये श्रोत्रेन्द्रियद्वारकमाभिलापप्लावितोपलब्धिलक्षणं भावश्रुतमुक्तं द्रष्टव्यम् , बहुव्रीहिणा तु तस्यां भावश्रुतोपलब्धावनुपयुक्तस्य वदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु बदत उभयश्रुतमाभिहितं वेदितव्यम् । इह च व्यवच्छेदफलत्वात् सर्वे वाक्यं सावधारणं भवति, इष्टश्वाऽवधारणविधिः प्रवर्तते; ततः 'चैत्रो धनुर्धर एव' इत्यादिष्विवेहाऽयोगव्यवच्छेदेनाऽवधारणं द्रष्टव्यम् , तद्यथा- श्रुतं श्रोत्रेन्द्रियोपलब्धिरेच, न तु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा भवति, यथा धनुर्धरश्चैत्रोऽन्यो वेति, श्रोत्रेन्द्रियोपलब्धेरवग्रहे-हादिरूपाया मतित्वात् ,
E १ भेदकृतं च विशेषणमष्टाविंशतिविधानभेदादि । इन्द्रियविभागतो वा मति-श्रुतभेदो यतोऽभिहितम् ॥ १६॥ २ श्रोनेन्द्रियोपलब्धिर्भवति पुतं शेषकं तु मतिज्ञानम् । मुक्त्वा गच्यभुतमक्षरलाभश्च शोषेषु ॥10॥
OPPPS
|| ७६ ॥
For Personal and
Use Oy