________________
विशे०
Aru
॥७५॥
MARPATRAPAPERPRIORS
स
मइनाणं च मइअनाणं च, विसेसिया मई-सम्मद्दिहिस्स मई मइनाणं, मिच्छादिहिस्स मई मइअन्नाणं; एवं अविसेसियं सुयं सुर्यनाणं सुयअन्नाणं च, विसेसियं सुर्य-सम्मद्दिहिस्स सुयं सुयनाणं, मिच्छादिहिस्स सुयं सुयअन्नाणं" सम्यग्दृष्टि-मिथ्यादृष्टिसंवन्धतोऽविशेपितेन मातिशब्देन मतिज्ञानं मत्यज्ञानं च द्वे अपि प्रतिपाद्यते, सम्यगाष्टित्वविशेषितेन तु मतिध्वनिना मतिज्ञानमेवोच्यते, मिथ्यादृष्टित्वविशेषितेन तु तेनैव मत्यज्ञानमेवाऽभिधीयते, एवं श्रुतेऽपि वाच्यमिति सूत्रभावार्थः। तदेतदानुषङ्गिक सूत्रोक्तमनुवर्तमानो भाष्यकारोऽप्याह
अविसेसिया मइ च्चिय सम्मद्दिहिस्स सा मइण्णाणं । मइअन्नाणं मिच्छद्दिहिस्स सुयं पि एमेव ॥ ११४ ॥
सम्यग्दृष्टि-मिथ्यादृष्टिभावेनाऽविशेषिता मतिर्मतिरेवोच्यते, न तु मतिज्ञानं मत्यज्ञानं चेति निर्धार्य व्यपदिश्यते, सामान्यरूपायां | तस्यां ज्ञाना-ज्ञानविशेषयोयोरप्यन्तर्भावात् । यदा तु सम्यग्दृष्टेरेव संबन्धिनी सा मतिर्विवक्ष्यते, तदा मतिज्ञानमिति निर्दिश्यते । यदा तु मिथ्यादृष्टिसंबन्धिनी तदा मत्यज्ञानम् । एवं श्रुतमप्यविशोषितं श्रुतमेव, विशेषितं तु सम्यग्दृष्टेः श्रुतज्ञानं, मिथ्यादृष्टस्तु श्रुताज्ञानम् , सम्यग्दृष्टिसंबन्धिनो बोधस्य सर्वस्यापि ज्ञानत्वात मिथ्यादृष्टिसत्कस्य त्वज्ञानत्वात् ।। इति गाथार्थः ॥ ११४॥
ननु यथा मति-श्रुताभ्यां सम्यग्दृष्टिर्घटादिकं जानीते, व्यवहरति च; तथा मिथ्यादृष्टिरपि, तत् किमिति तस्य सत्कं सर्वमप्यज्ञानमुच्यते, इत्याशङ्कयाह
सेद-सदविसेसणाओ भवहेउजदिच्छिओवलम्भाओ। नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥११५॥
सच्चाऽसच्च सद-सती तयोरविशेषणमविशेषस्तस्माद् हेतोः, मिथ्यादृष्टेः संबन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, सतो ह्यसत्त्वेनाऽसद् विशिष्यते, असतोऽपि च सत्वेन सद् भिद्यते । मिथ्यादृष्टिश्च घटे सत्त्व-प्रमेयत्व-मूर्तत्वादीन् , स्तम्भ-रम्भा-ऽम्भोरुहादिव्यावृत्त्यादींश्च पटादिधर्मान् सतोऽप्यसत्वेन प्रतिपद्यते, 'सर्वप्रकारैर्घट एवायम्' इत्यवधारणात् । अनेन ह्यवधारणेन सन्तोऽपि सत्त्व-प्रमेयत्वादयः पटादिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्व-प्रमेयत्वादिसामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात् 'सर्वथा घट एवायम्' इत्यवधारणानुपपत्तेः, 'कथञ्चिद् घट एवाऽयम्' इत्यवधारणे त्वनेकान्तवादाभ्युपगमेन सम्यग्दृष्टित्वप्रसङ्गात , तथा पट-पुट-नट-शकटादिरूपं घटेऽसदपि सत्त्वेनाऽयमभ्युपगच्छति 'सर्वैः प्रकारैर्घटोऽस्त्येव' इत्यवधारणात् , 'स्यादस्त्येव घटः' इत्यव
1 भाविशेषिता मतिरेव सम्यग्दष्टेः सा मतिज्ञानम् । मत्यज्ञानं मिध्यादृष्टेः श्रुतमध्येवमेव ॥ १४ ॥ २. सदसदविशेषणाद् भवहेतुयदृच्छोएकम्भात् । ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानम् ॥ १५ ॥
॥७५॥
san
www.jainelibrary.org