SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ दव्वसुयं बुद्धीओ सा वि तओ जमविसेसओ तम्हा । भावसुयं मइपुव्वं दव्वसुयं लक्खणं तस्स ॥११२॥ विशे० यदिति यस्मात् कारणाद् यथा द्रव्यश्रुतं शब्दो बुद्धेमतेः सकाशाद् भवतीति भवद्भिः प्रतिपाद्यते, तथा हन्त ! साऽपि बुद्धिस्ततः शब्दात श्रोतुर्भवत्येव । ततश्च 'मइपुग्वं सुयमुत्तं न मई सुयपुब्बिया विसेसोऽयं' इति मति-श्रुतयोर्भेदप्रतिपादनार्थं योऽसौ विशेषोत्र प्रतिपाद यितुं प्रस्तुतः, स द्वयोरप्यन्योन्यं पूर्वभावितायाः समानत्वाद् न प्राप्नोति, इत्यनन्तरगाथापर्यन्तावयवेन संबन्धः । तस्मात् तेषां मतेTA विशेषतः कारणाद् यदस्माभिः प्राक् समर्थितम्-भावश्रुतं मतिपूर्वमिति, तदेव युक्तियुक्तम् । शब्दलक्षणं तु द्रव्यश्रुतं तस्य भावश्रुतस्य लक्ष्यते गम्यतेऽनेनेति लक्षणं लिङ्गम् ।। इति गाथार्थः ॥ ११२॥ कुतस्तत् तस्य लक्षणम् , इत्याह सुयविण्णाणप्पभवं दव्वसुयमियं जओ विचिंतेउं। पुव्वं, पच्छा भासइ लक्खिज्जइ तेण भावसुयं ॥११३॥ श्रुतविज्ञानप्रभवं सविकल्पकविवक्षाज्ञानकार्य शब्दरूपं द्रव्यश्रुतमिदं यत् परैर्मतिपूर्वदेनेष्यते, कथं पुनस्तद्भावश्रुतप्रभवं | विज्ञायते ?, इत्याह- यतः सर्वोऽपि पूर्व विचिन्त्य वक्तव्यमर्थ चित्ते विकल्प्य पश्चात् शब्दं भापते, यच्च तचिन्ताज्ञानं तच्छृतानुसारित्वाद् भावश्रुतम् , इति भावश्रुतप्रभवता द्रव्यश्रुतस्य विज्ञायते; यञ्च यस्मात् प्रभवति तत् तस्य कार्यम् , अतस्तेन कार्यभूतेन द्रव्यश्रुतेन स्वकारणभूतं भावश्रुतं लक्ष्यत इति तत् तस्य लक्षणमुक्तम् , अस्ति भावश्रुतमत्र, तत्कार्यस्य शब्दस्य श्रवणात् , इत्येवं तेन भावश्रुतस्य लक्ष्यमाणत्वादिति । द्रव्यश्रुतस्य च भावश्रुतलक्षणता मतान्तरवादिनां विपर्यस्तत्वप्रतिपादनार्थमुपदर्शिता, भावश्रुतप्रभवस्यापि शब्दस्य तैमतिपूर्वत्वप्रतिपादनात् ।। इति गाथार्थः ।। ११३ ॥ अथ यथा मति-श्रुतयोः कार्य कारणभावाद् भेदः, तथा तयोः प्रत्येक स्वस्थानेऽपि सम्यक्त्व-मिथ्यात्वपरिग्रहाद् भेद एवेत्यनुषङ्गतो दर्शयितुं नन्द्यध्ययनागमे मति-श्रुतयोः कार्य-कारणभावेन भेदप्रतिपादनानन्तरमिदं मूत्रमस्ति, तद् यथा “अविसेसिया मई इण्यश्रुतं बुद्धः साऽपि ततो यदविशेषतस्तस्मात् । भावश्रुतं मतिपूर्व द्रव्यश्रुतं लक्षण तस्य ॥ १२॥ २ गाथा १०५ । ३ च. 'पूर्वभावयोः'। ४ श्रुतविज्ञानप्रभवं दग्यश्रुतमिदं यतो विचिन्त्य । पूर्व, पश्चाद् भाषते लक्ष्यते तेन भावथुतम् ॥ ११३ ॥ ५ अविशेषिता मतिमंतिज्ञानं च मत्यज्ञानं च, विशेषिता मतिः-सम्यग्दृष्टेमतिमंतिज्ञानम् , मिथ्यादृष्टेमतिर्मत्यज्ञानं; एवं अविशेषितं श्रुतं भुतज्ञानं धुताज्ञानं च, विशेषितं श्रुतम्-सम्यग्दृष्टेः श्रुतं श्रुतज्ञानम् , मिथ्यादृष्टेः श्रुतं श्रुताज्ञानम् । 11७४॥ For Pesos and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy