SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ विशे बृहद्वृत्तिः । |७३॥ मतिस्त्वतज्जन्यत्वात् तत्कार्यतया न व्यपदिश्यते, तस्या हेत्वन्तरात् सदा सिद्धत्वात् , स्वविशेषभूतश्रुतोपयोगोपरमे तु क्रमायातं मत्यवस्थानं न निवार्यते, आमरणान्तं केवलश्रुतोपयोगप्रसङ्गात् ।। इति गाथार्थः ॥ ११ ॥ तदेवं भावश्रुतं मतिपूर्व व्यवस्थाप्य मतान्तरमुपदर्शयन्नाह देवसुयं मइपुव्वं भासइ जं नाविचिंतियं केइ । भावसुयस्साभावो पावइ तेसिं न य विसेसो ॥१११॥ 'केइ त्ति' 'मतिपूर्व श्रुतम् ' इत्यत्रागमवचने केचिदेवं व्याचक्षते । किम् ?, इत्याह- द्रव्यश्रुतं शब्दरूपं मतिपूर्वम् , न भावश्रुतम् । तत्र युक्तिमाह- 'भासइ जं नाविचिंतियं ति' यद् यस्मात् कारणात् अविचिन्तितमविवक्षितं न कोऽपि भाषते न शब्दमुदीरयति, यच्च विवक्षाज्ञानं तत् किल मतिरिति तेषामभिप्रायः, ततश्च मतिपूर्व द्रव्यश्रुतं सिद्धं भवति । एतस्मिन् व्याख्याने दोषमाह-तेषामेवं व्याख्यातृणां भावश्रुतस्य सर्वथैवाऽभावः प्राप्नोति, यतो वक्तृगतं विवक्षोपयोगज्ञानं तैरेव मतित्वेन व्याख्यातम् , अन्यथा शब्दस्य मतिपूर्वकत्वाभावात् , श्रोतुरपि शब्दं श्रुत्वा प्रथमं यदवग्रहादिज्ञानं तत् तावद् मतिरेव, ऊर्ध्वमपि च तस्या भावश्रुतं नाभ्युपगन्तव्यम् , 'मतिपूर्व भावश्रुतम्' इत्यस्मत्पक्षवर्तित्वप्रसङ्गात् । यदशृण्वतोऽभाषमाणस्य चाऽनुप्रेक्षादिष्वन्तर्जल्पारूषितं ज्ञानं विपरिवर्तते तद् भावश्रुतं भविष्यतीति चेत् । तदयुक्तम् , यतस्तदपि यद्यवग्रहाद्यात्मकमतिपूर्वं तदा भावश्रुतं नेष्टव्यम् , अस्मत्पक्षाभ्युपगमप्राप्तेरेव । अथ मतिपूर्वं तद् नेष्यते, तथापि तत् सविकल्पकत्वेन मतिरेव, शब्दविवक्षाज्ञानवत् ; शब्दविवक्षाज्ञानेऽपि हि शब्दविकल्पोऽस्ति, तमन्तरेण शब्दाभिधानासंभवात् , न चासौ भावश्रुतत्वेनेष्टः; तस्माद् मतेरनन्तरं सर्वत्र शब्दमात्रस्येवोत्थानम् , न भावश्रुतस्य; अस्मत्पक्षाङ्गीकरणप्रसङ्गात् , विकल्पज्ञानानि च विवक्षाज्ञानवद् मतित्वेनोक्तान्येव, इति सर्वत्र भावश्रुताभावः प्रसजति । भवतु स तर्हि, इति चेत् । इत्याह- 'न य विसेसो त्ति' भावश्रुताभावे मति-श्रुतयोर्विशेषो भेदश्चिन्तयितव्यो न स्यात् , स हि द्वयोरेवोपपद्यते । यदा च मतिरेवास्ति, न भावश्रुतम् , तदा तस्याः केन सह भेदचिन्ता युज्यत ? इति भावः। द्रव्यश्रुतरूपेण शब्देन सह मतेर्भेदचिन्ता भविष्यतीति चेत् । तदयुक्तम् , ज्ञानपञ्चकविचारस्येहाधिकृतत्वात् , तदधिकारे च शब्देन सह भेदचिन्ताया अप्रस्तुतत्वात् । चिन्त्यतां वा 'मतिपूर्व द्रव्यश्रुतम् ' इत्येवं मतेः शब्देनापि सह विशेषः, किन्तु सोऽपि न घटते ।। इति गाथार्थः ।। १११॥ कुतो न घटते ?, इत्याह १ द्रव्यश्रुतं मतिपूर्व भाषते यद् नाऽविचिन्तिसं केचित् । भावश्रुतस्याभावः प्राप्नोति तेषां न च विशेषः ॥ ७॥ कामताडARASHAN For Personal and Private Use Only Realwww.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy