________________
विशे०
॥ ७२ ॥
Jain Education Internat
तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाकारं श्रुतानुसारि ज्ञानमभिधीयते, तच्चाऽवग्रहे-हादीनन्तरेणाऽऽकस्मिकं न भवति, अवग्रहादयश्च मतिरेव, इति तत्पूर्वता श्रुतस्य न विरुध्यते ।। इति गाथार्थः ॥ १०८ ॥
तदेवं मतिपूर्वं श्रुतमिति समर्थितम् परस्तु मतेरपि श्रुतपूर्वताऽऽयादनेनाऽविशेषमुद्भावयन्नाह -
सयपुत्र त्ति तेण न विसेसो । सा दव्वसुयप्पभवा भावसुयाओ मई नत्थि ॥ १०९ ॥
परस्माच्छब्दं श्रुत्वा तद्विषया 'भे' भवतामपि या मतिरुत्पद्यते सा श्रुतपूर्वा श्रुतकारणैव, शब्दस्य श्रुतत्वेन प्रागुक्तत्वात् तस्याश्र मतस्तत्प्रभवत्वेन भवतामपि सिद्धत्वात् । ततश्च न विसेसो त्ति' अन्योन्यपूर्वभावितायां मति श्रुतयोर्न विशेष इत्यर्थः । तथा च सति' ने मई सुपुब्बियति' यदुक्तं प्राक्, तदयुक्तं प्राप्नोतीति भावः । अत्रोत्तरमाह- परस्माच्छन्दमाकर्ण्य या मतिरुत्पद्यते, सा हन्त ! शब्दस्य द्रव्यश्रुतमात्रत्वाद् द्रव्यश्रुतप्रभवा, न भावश्रुतकारणा, एतत् तु न केनापि वार्यते, किन्त्वेतदेव वयं ब्रूमो यदुत- भावश्रुताद् मतिर्नास्ति, भावश्रुतपूर्विका मतिर्न भवतीत्यर्थः, द्रव्यश्रुतप्रभवा तु भवतुः को दोषः १ ॥ इति गाथार्थः ।। १०९ ।।
ननु भावश्रुतादूर्ध्वं मतिः किं सर्वथा न भवति ?, इत्याह
कैज्जतया, न उ कमसो कमेण को वा मई निवारेइ ? । जं तत्थावत्थाणं सुयस्स कुत्तावओगाओ ॥ ११० ॥
भावाद् मतिः कार्यतयैव नास्तीत्यनन्तरोक्तगाथावयवेन संबन्धः । 'न उ कमसो ति' क्रमशस्तु मतिर्नास्तीत्येवं न किं तर्हि ?, क्रमशः साऽस्ति इत्येतत् सर्वोऽपि मन्यते, अन्यथा आमरणावधि श्रुतमात्रोपयोगप्रसङ्गात् । यदि क्रमशः साऽस्ति, तर्हि क्रमेण भवन्त्यास्तस्या भवन्तः किं कुर्वन्ति ?, इत्याह-' कमेणेत्यादि' वाशब्दः पातनार्थे, सा च कृतैव क्रमेण भवन्तीं मतिं को निवारयति मत्या श्रुतोपयोगो जन्यते, तदुपरमे तु निजकारणकलापात् सदैव प्रवृत्ता पुनरपि मतिरवतिष्ठते, पुनस्तथैव श्रुतं तथैव च मतिः इत्येवं क्रमेण भवन्त्या मतेर्निषेधका वयं न भवाम इत्यर्थः । किमिति ?, इत्याह-यद् यस्मात् कारणात् तत्र तस्यां मतौ अवस्थानं स्थितिर्भवति, श्रुतोपयोगाच्च्युतस्य ततः क्रमेण मतिं न निषेधयामः । इदमुक्तं भवति यथा सामान्य भूतेन सुवर्णेन स्वविशेषरूपाः कङ्कणा-ऽङ्गुलीयकादयो जन्यन्ते, अतस्ते तत्कार्यव्यपदेशं लभन्त एव, सुवर्ण त्वतज्जन्यत्वात् तत्कार्यतया न व्यवहियते, तस्य कारणान्तरेभ्यः सिद्धत्वात्, कङ्कणादिविशेषोपरमे तु सुवर्णावस्थानं क्रमेण न निवार्यते; एवं मत्याऽपि सामान्यभूतया स्वविशेषरूपश्रुतोपयोगो जन्यते, अतस्तत्कार्य स उच्यते,
१ श्रुत्वा या मतिर्भवतां सा श्रुतपूर्वेति तेन न विशेषः । सा द्रव्यश्रुतप्रभवा भावश्रुताद् मतिर्नास्ति ॥ १०९ ॥ २ गाथा १०५ ३ कार्यतया, मैं तु क्रमशः क्रमेण को वा मतिं निवारयति । यत् तत्रावस्थानं श्रुतस्य श्रुतोपयोगतः ॥ ११० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ७२ ॥
www.jainelibrary.org