________________
विशे०
॥ ७१ ॥
Jain Educationa Internati
अनुप्रेक्षादिकालेऽभ्यु श्रुतपर्यायवर्धनेन मत्यैव श्रुतज्ञानं पूर्यते पोष्यते पुष्टिं नयित इत्यर्थः तथा मत्यैवाऽन्यतस्तत् प्राप्यते गृह्यते, तथा मत्यैव तदन्यस्मै दीयते व्याख्यायते, नामत्या न मतिमन्तरेणेत्यर्थः, प्राकृतत्वात् पुंलिङ्गनिर्देशः । तथा गृहीतं सदेतत् परावर्तन-चिन्तनद्वारेण मत्यैव पाल्यते स्थिरीक्रियते, इतरथा मत्यभावे तद् गृहीतमपि प्रणश्येदेवेत्यर्थः । श्रुतज्ञानस्यैते पूरणादयोऽथ विशिष्टाभ्यूहधारणादीनन्तरेण कर्तुं न शक्यन्ते, अभ्यूहादयश्च मतिज्ञानमेव इति सर्वथा श्रुतस्य मतिरेव कारणम्, श्रुतं तु कार्यम्, कार्य-कारणभावश्च भेदे सत्येवोपपद्यते, अभेदे पट- तत्स्वरूपयोरिव तदनुपपत्तेः । तस्मात् कारण --कार्यरूपत्वाद् मति - श्रुतयोर्भेदः ॥ इति गाथार्थः ॥ १०६ ॥
अथ तस्य मतिपूर्वतां विघटयन्नाह
णाणाणण्णाणाणि य समकालाई जओ मइ-सुयाई । तो न सुयं मइपुव्वं मइणाणे वा सुयन्नाणं ॥ १०७ ॥
इह मति श्रुते वक्ष्यमाणयुक्त्या द्विविधे सम्यग्दृष्टेर्ज्ञानस्वरूपे, मिथ्यादृष्टेस्त्वज्ञानस्वभावे । तत्र ज्ञाने अज्ञाने चैते प्रत्येकं समकालमेव भवतः, तत्क्षयोपशमलाभस्यागमे युगपदेव निर्देशात् । यतश्चैते ज्ञाने अज्ञाने च मति श्रुते पृथक् समकाले भवतः, ततो न श्रुतं मतिपूर्व युज्यते, न हि सममेवोत्पन्नयोः सव्येतरगोविषाणयोरिव पूर्व-पश्चाद्भावः संगच्छते । अथोत्सूत्रोऽप्यसदाग्रहवशात् स न त्यज्यते, इत्याह- ' मइणाणे वा इत्यादि' इदमुक्तं भवति - मतिज्ञाने समुत्पन्ने तत्समकालं च श्रुतज्ञानेऽनभ्युपगम्यमाने श्रुताज्ञानं जीवस्य प्रसज्यते, श्रुतज्ञानानुत्पादेऽद्यापि तदनिवृत्तेः न च ज्ञाना--ज्ञानयोः समकालमवस्थितिरागमे क्वचिदप्यनुमन्यते, विरोधात् ज्ञानस्य सम्यग्दृष्टिसंभवित्वात्, अज्ञानस्य तु मिथ्यादृष्टिभावित्वात् ।। इति गाथार्थः ॥ १०७ ॥
अत्र प्रतिविधानमाह -
हम-सुयाई समकालाई, न तूवओगो सिं । मइपुव्वं सुयमिह पुण सुओवओगो मइप्पभवो ॥१०८॥ ननु ध्यान्ध्यविजृम्भितः पदं परस्य, अभिप्रायापरिज्ञानात्, तथाहि द्विविधे मति श्रुते तदावरणक्षयोपशमरूपलब्धितः, उपयोगतश्च । तत्रेह लब्धितो ये मति श्रुते ते एव समकालं भवतः, यस्त्वनयोरुपयोगः स युगपद् न भवत्येव, किन्तु केवलज्ञान-दर्शनयोरिव तथास्वाभान्यात् क्रमेणैव प्रवर्तते । अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता भविष्यतीति चेत् । नैवम्, इत्याह- मतिपूर्वं श्रुतम्, इह
१ ज्ञाने अज्ञाने च समकाले यतो मति श्रुते। ततो न श्रुतं मतिपूर्व मतिज्ञाने वा श्रुताऽज्ञानम् ॥ १०७ ॥ २ इह लब्धिमति श्रुते समकाले न तूपयोगोऽनयोः । मतिपूर्वं श्रुतमिह पुनः श्रुतोपयोगो मतिप्रभवः ॥ १०८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ७१ ॥
www.jainelibrary.org