________________
विशे०
dardPOS
- यदि भाषा-श्रोत्रलब्धिरहितानामपि काष्ठकल्पानां पृथिव्यायेकेन्द्रियाणां स्पष्ट किमप्यनुपलभ्यमानमपि केनापि वागाडम्बरमात्रेण ज्ञानं व्यवस्थाप्यते, तर्हि सर्वेषामपि केवलज्ञानपर्यन्तानां पञ्चानामपि ज्ञानानां प्रसङ्गः सद्भावस्तेषां प्राप्नोतीत्यर्थः-- पश्चापि ज्ञानान्येकेन्द्रियाणां सन्ति, इत्येतदपि कस्माद् नोच्यते ?, स्पष्टानुपलम्भस्य विशेषाभावादिति भावः । अत्रोत्तरमाह-तदेतन्न । कुतः, इत्याहतदावरणानामवधि-मनःपर्याय-केवलज्ञानावारककर्मणामक्षयोपशमादिति, अक्षयाचेति स्वयमपि द्रष्टव्यम् । इदमुक्तं भवति-केवलज्ञानं तावत् खाऽऽवारककर्मणः क्षय एव जायते, अवधि-मनःपर्यायज्ञाने तु तस्य क्षयोपशमे भवतः, एतच्चैकेन्द्रियाणां नास्ति, तत्कार्यादर्शनात् , आगमेऽनुक्तत्वाचः इति न सर्वज्ञानप्रसङ्गः । मति श्रुते अपि तर्हि मा भूताम् , इति चेत् । इत्यत्राह-मईत्यादि' मति-श्रुतज्ञानावरणक्षयोपशमस्त्वेकेन्द्रियाणामस्त्येव, तत्कार्यदर्शनात् , सिद्धान्तेऽभिहितत्वाच्च । ततश्च तत्क्षयोपशमसद्भावाद् मति-श्रुते भवत एव तेषाम् ॥ इति गाथार्थः ॥ १०४॥
तदेवं सप्रसङ्गः प्रदर्शितो लक्षणभेदाद् मति-श्रुतयोर्भेदः, सांप्रतं हेतुफलभावात् तमुपदर्शयन्नाह
मइपुव्वं सुयमुत्तं न मई सुयपुब्बिया विसेसोऽयं । पुव्वं पूरण-पालणभावाओ जं मई तस्स ॥ १.५॥
“ मैइपुब्बग सुत्तं" इति वचनादागमे मतिः पूर्वं यस्य तद् पतिपूर्व श्रुतमुक्तम् , न पुनर्मतिः श्रुतपूर्विका, इत्यनयोरयं विशेषः । यदि ह्येकत्वं मति-श्रुतयोर्भवेत् , तदैवंभूतो नियमेन पूर्व-पश्चाद्भावो घट-तत्स्वरूपयोरिव न स्यात् , अस्ति चायम् , ततो भेद इति भावः । किमिति पुनमंतिपूर्वमेव श्रुतमुक्तम् ?, इत्याह- यद् यस्मात् कारणात् तस्य श्रुतस्य मतिः पूर्व प्रथममेवोपपद्यते । कुतः १, इत्याह'पूरणेत्यादि' पृधातुः पालन-पूरणयोरर्थयोः पठ्यते, तस्य च पिपतींति पूर्वम् , इति निपात्यते । ततश्च तस्य पूरणात् पालनाच्च मतिर्यस्मात् पूर्वमेव युज्यते , तस्माद् मतिपूर्वमेव श्रुतमुक्तम् , पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्यः, कार्यात् पूर्वमेव कारणस्य भावात् , “सम्यग्ज्ञानपूर्विका (सर्व) पुरुषार्थसिद्धिः" इत्यादौ तथादर्शनाच्च । ततश्च मतिपूर्व श्रुतामति कोऽर्थः ?, श्रुतज्ञानं कार्यम् , मतिस्तु तत्कारणम् , कार्य-कारणयोश्च मृत्पिण्ड-घटयोरिव कथश्चिद् भेदः प्रतीत एवेति भावः ॥ इति गाथार्थः ॥१०५ ॥
पूर्णादिधर्मानेव मतेर्भावयन्नाहपूरिज्जइ पाविजइ दिजइ वा जं मईए नाऽमइणा । पालिज्जइ य मईए गहियं इहरा पणस्सेजा ॥ १०६ ॥
मतिपूर्व श्रुतमुक्त न मतिः श्रुतपूर्विका, विशेषोऽयम् । पूर्व पूरण-पालनभावात् यत् मतिस्तस्य ॥ १०५॥ २ मतिपूर्वकं श्रुतम् ॥ ३ धर्मोत्तराचार्यस्य न्यायविन्दो प्रथमपरिच्छेदे आदिम सूत्रम् । ५ पूर्यते प्राप्यते दीयते वा यद् मत्या नाऽमत्या । पाल्यते च मत्या गृहीतमितरथा प्रणश्येत् ॥१०६॥
Jan Education inten
For Personal and Private Use Only
www.jaineltrary.ary