SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सपासका रसनलक्षणानां प्रत्येक निर्दृत्यु-पकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मादृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं विशे० श्रोत्रादिभावेन्द्रियज्ञानं भवति, लब्धीन्द्रियावरणक्षयोपशमसंभूताऽणीयसी ज्ञानशक्तिर्भवतीत्यर्थः। तथा तेनैव प्रकारेण द्रव्यश्रुतस्त्र द्रव्येन्द्रियस्थानीयस्याऽभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकल्पं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति-एकेन्द्रियाणां । तावच्छ्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किश्चिद् दृश्यत एवं, वनस्पत्यादिषु स्पष्टतल्लिङ्गोपलम्भात् , तथाहि-कलकण्ठोद्गी णमधुरपश्चमाद्गारश्रवणात् सद्यः कुसुम-पल्लवादिप्रसवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिङ्गमवलोक्यते । तिलकादितरुषु पुनः FA कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य , चम्पकाद्यहिपेषु तु विविधसुग न्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्मकटनं घ्राणेन्द्रियज्ञानस्य, बकुलादिभूरुहेषु तु रम्भातिशायिप्रवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूषास्वादनात् तदाविष्करणं रसनेन्द्रियज्ञानस्य, कुरवकादिविटपिष्वशोकादिद्रुमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणकङ्कणाभरणभूषितभव्यभामिनीभुजलताऽवगृहनसुखाद् निष्पिष्टपमरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झगिति प्रसून--पल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथतेषु द्रव्येन्द्रियासत्त्वेऽप्येतद् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवनाद् वनस्पत्यादीनामाहारसंज्ञा, संकोचनवल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसंकोचनादिभ्यो भयसंज्ञा, विरहक-तिलकचम्पक-केशरा-ऽशोकादीनां तु मैथुनसंज्ञा दर्शितैव, बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते । तस्माद् भावेन्द्रियपञ्चकावरणक्षयोपशमाद् भावेन्द्रियपश्चकज्ञानवद् भावश्रुतावरणक्षयोपशमसद्भावाद् द्रव्यश्रुताभावेऽपि यच्च यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणाम् , इत्यलं विस्तरेण । तर्हि ''जं विण्णाण सुयाणुसारेणं' इति श्रुतज्ञानलक्षणं व्यभिचारि पामोति, श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेत् । नैवम् , अभिप्रायाऽपरिज्ञानात् , शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम् , यत्त्वेकेन्द्रियाणामौधिकमविशिष्टभावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपम् , तच्छृतानुसारित्वमन्तरेणापि यदि भवति, तथापि न कश्चिद् व्यभिचारः ॥ इति गाथार्थः ।। १०३ ॥ पुनरप्याह पर:___ऐवं सवपसंगो, न तदावरणाणमक्खओवसमा । मइ-सुयनाणावरणक्खओवसमओ मइ-सुयाइं ॥१०॥ क. ग. घ. छ, 'यज्ञानं' । २ गाथा १००।३ एवं सर्वप्रसङ्गः, न तदावरणानामक्षयोपशमात् । मति-क्षुतज्ञानावरणक्षयोपशमतो मति-श्रुते ॥ १०४ ॥ For Personal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy