________________
विशे
बृहद्वात्तः।
त्वाद्, वल्ल्यादिध्याहार-भय-परिग्रह-मैथुनसंज्ञादेस्तल्लिङ्गस्य दर्शनाचेति ॥
आह-ननु सुप्तयतिलक्षणदृष्टान्तेऽपि तावद् भावश्रुतं नावगच्छामः, तथाहि- श्रुतोपयोगपरिणत आत्मा शृणोतीति श्रुतम्, श्रूयते तदिति वा श्रुतमित्यनयोर्मध्ये कया व्युत्पत्त्या सुप्तसाधोः श्रुतमभ्युपगम्यते ? । तत्राद्यः पक्षो न युक्तः, सुप्तस्य श्रुतोपयोगाऽसंभवात् । द्वितीयोऽपि न संगतः, तत्र शब्दस्य वाच्यत्वात् , तस्यापि च स्वपतोऽप्तंभवादिति । सत्यम्, किन्तु शृणोत्यनेन, अस्माद्, अस्मिन् वेति व्युत्पत्तिरिहाश्रीयते, एवं च श्रुतज्ञानावरणक्षयोपशमो वाच्यः संपद्यते, स च सुप्तयतेः, एकेन्द्रियाणां चाऽस्तीति न किश्चित् परिहीयते ॥ इति गाथार्थः॥१०१॥ अथ दृष्टान्त-दान्तिकयोवैषम्याऽऽपादनेनैकेन्द्रियाणां श्रुतसद्भावं विघटयन्नाह--
भावसुयं भासा-सोयलद्धिणो जुज्जए न इयरस्स । भासाभिमुहस्स जयं सोऊण य ज हवेज्जाहि ॥१०२॥
भावश्रुतं युज्यत इति संवन्धः । कस्य युज्यते ?, इत्याह- भाषा-श्रोत्रलब्धिमतः भाषालब्धिमतः, श्रवणेन्द्रियलब्धिमतश्चेत्यर्थः । कथंभूतं यद्भावश्रुतम् ?, इत्याह- भाषाभिमुखस्य शब्दमभिधित्सोः 'प्रथममेव मध्ये एतत् प्रतिपादयामि' इत्युपयोगरूपं यद् भवेत् , श्रुत्वा वा परोदीरितां भाषां यद् भवेत् 'एतदनेन प्रतिपादितम्' इति; इह च यथासंख्यमवगन्तव्यम्- भाषालब्धिमतः प्रथमं भवेत् , श्रवणेन्द्रियलब्धिमतस्तु द्वितीयं भवेदिति । 'न इयरस्स त्ति' इतरस्य तु भाषा-श्रोत्रलब्धिरहितस्य भावश्रुतं न युज्यते, अयमभिप्रायः- यस्य सुप्तसाधोभाषा-श्रोत्रलब्धिरस्ति, तस्योत्थितस्य परप्रतिपादन-परोदीरितशब्दश्रवणादिलक्षणं भावश्रुतकार्य दृश्यते, तद्दर्शनाच्च सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाऽऽसीदित्यनुमीयते, यस्य त्वेकेन्द्रियस्य भाषा-श्रोत्रलब्धिरहितत्वेन कदाचिदपि भावश्रुतकार्य नोपलभ्यते, तस्य कथं तदस्तीति प्रतीयेत? ॥ इति गाथार्थः ॥ १०२ ।।
अत्रोत्तरमाह
जेह सुहुमं भाविंदियनाणं दबिदियावरोहे वि । तह दब्बसुयाभावे भावसुयं पत्थिवाईणं ॥ १०३ ॥
इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोक-बहु-बहुतर-बहुतमादितारतम्यभावन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपश्चकावरणक्षयोपशमः समस्त्येवेति परममुनिवचनम् । ततश्च यथा येन प्रकारेण पृथिव्यादीनामेकेन्द्रियाणां श्रोत्र-चक्षुर्घाण
, भावभुतं भाषा-श्रोत्रलब्धिमतो युज्यते नेतरस्य । भाषाभिमुखस्य यत् श्रुत्वा च यद् भवेताम् ॥ १०२ ॥ २ यथा सूक्ष्मं भावन्दियज्ञानं मग्पोन्द्रयावरोधेऽपि । तथा दव्यश्रुताभावे आवश्रुतं पृथ्षादीनाम् ॥ १०३ ॥
|६८॥
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.org