________________
चाऽश्रुतानुसारित्वाद् मतिज्ञानम् , यस्तु तेष्वङ्गा-ऽनङ्गप्रविष्टश्रुतभेदेषु श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानम् । ततश्चाङ्गा-ऽनङ्गप्रविष्टादिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावात् , ईहादिषु च मतिभेदेषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वासंभवाद् नोभयलक्षणसंकीर्णतादोषोऽप्युपपद्यत इति सर्व सुस्थम् । न चेह मति-श्रुतयोः परमाणु करिणोरिवाऽऽत्यन्तिको भेदः समन्वेषणीयः, यतः प्रागिहैवोक्तम्-विशिष्टः कश्चिद् मतिविशेष एव श्रुतम् , पुरस्तादपि च वक्ष्यते- वल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपं श्रुतज्ञानम् , न च वल्क-शुम्बयोः परमाणुकुञ्जरवदात्यन्तिको भेदः, किन्तु कारणकार्यभावकृत एव, स चेहापि विद्यते, मतेः कारणत्वेन, श्रुतस्य तु कार्यत्वेनाभिधास्यमानत्वात् । न च कारण-कार्ययोरैकान्तिको भेदः, कनककुण्डलादिषु, मृत्पिण्डकुण्डादिषु च तथाऽदर्शनात् । तस्मादवग्रहापेक्षयाऽनभिलापत्वात् , ईहाद्यपेक्षया तु सामिलापत्वात् साभिलापा-ऽनभिलापं मतिज्ञानम् , अश्रुतानुसारि च; संकेतकालप्रवृत्तस्य श्रुतग्रन्थसंबन्धिनो वा शब्दस्य व्यवहारकालेऽननुसरणात् । श्रुतज्ञानं तु साभिलापमेव, श्रुतानुसार्येव च, संकेतकालप्रवृत्तस्य श्रुतग्रन्थसंबन्धिना वा शब्दरूपस्य श्रुतस्य व्यवहारकालेऽवश्यमनुसरणादिति स्थितम् ॥ इति गाथार्थः ॥१०॥
अथ श्रुतज्ञानलक्षणस्याऽव्याप्तिदोषमुद्भावयन्नाह परः
जइ सुयलक्खणमेयं तो न तमेगिंदियाण संभवइ । दव्वसुयशावम्मि वि भावसुयं सुत्तजइणो व्व ॥१०॥
यदि श्रुतज्ञानस्येदमनन्तरगाथोक्तं लक्षणामिष्यते- श्रुतानुसारि ज्ञानं यदि श्रुतमभ्युपगम्यत इत्यर्थः, तदा तदेकेन्द्रियाणां न सम्भवति न घटते , शब्दानुसारित्वस्य तेष्वसम्भवात् । तदसम्भवश्च मनःप्रभृतिसामाग्यभावात् , इष्यते चाऽऽगमे “एगिन्दिया नियमं दुयनाणी, तं जहा-मइअन्नाणी य सुयअन्नाणी य" इति वचनादेकेन्द्रियाणामपि श्रुतमात्रम् , इत्यव्यापकमेवैतद् लक्षणम् । अत्रोत्तरमाह-'दव्वसुयेत्यादि' द्रव्यश्रुतं शब्दस्तस्याऽभावेऽप्येकेन्द्रियाणां भावश्रुतमभ्युपगन्तव्यम्, सुप्तयतेरिव; इदमुक्तं भवति-यद्यप्येकेन्द्रियाणां कारणवैकल्याद् द्रव्यश्रुतं नास्ति, तथापि स्वापाद्यवस्थायां साध्वादेरिवाऽशब्दकारणं, अशब्दकार्य च श्रुतावरणक्षयो
पशममात्ररूपं भावश्रुतं केवलिदृष्टममीषा मन्तव्यम् : न हि स्वापाद्यवस्थायां साध्वादिः शब्दं न शृणोति, न विकल्पयतीत्येतावन्मात्रेण तस्य Po1 श्रुतज्ञानाभावो व्यवस्थाप्यते, किन्तु स्वापाद्यवस्थोत्तरकालं व्यक्तीभवद् भावश्रुतं दृष्ट्वा पयसि सर्पिरिव प्रागपि तस्य तदासीदिति व्यवहियते, एवमेकेन्द्रियाणामपि सामग्रीवैकल्याद् यद्यपि द्रव्यश्रुताभावः, तथाऽप्यावरणक्षयोपशमरूपं भावश्रुतमवसेयम् , परमयोगिभिदृष्ट
FF|६७॥ १ यदि श्रुतलक्षणमेतत् ततो न तदेकेन्द्रियाणां संभवति । द्रव्यश्रुताभावेऽपि भावश्रुतं सुप्तयतेरिव ॥ 1.1॥ २ एकेन्द्रिया नियमतो अज्ञानाः, तद्यथा-मत्वज्ञानाच श्रुताज्ञानाश्च ।
HOO
For Personal and Prevate Une Grey