SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ HOL विशे० संयोज्य घटो घटः' इत्याद्यन्त ल्पाकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यज्ज्ञानमुदेति तच्छूतज्ञानमिति । तच कथंभूतम् ?, इत्याह- 'निजकाऽर्थोक्तिसमर्थमिति' निजकः स्वस्मिन् प्रतिभासमानो योऽसौ घटादिरर्थस्तस्योक्तिः परस्मै प्रतिपादनं तत्र समर्थ शमं बृहद्वृत्तिः । निजकाऽर्थोक्तिसमर्थम् , अयमिह भावार्थः- शब्दोल्लेखसहितं विज्ञानमुत्पन्नं स्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति, तेन च परः प्रत्याय्यते, इत्येचं निजकार्योक्तिसमर्थमिदं भवति, अभिलाप्यवस्तुविषयमिति यावत् । स्वरूपविशेषणं चैतत् , शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्तिसामर्थ्याऽव्यभिचारादिति । 'मई सेसं ति' शेषमिन्द्रिय-मनोनिमित्तमश्रुतानुसारेण यदवग्रहादिज्ञानं, तद् मतिज्ञानमित्यर्थः ।। अत्राह कश्चित्-ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते, शेपं तु मतिज्ञानम् , तदा वक्ष्यमाणस्वरूपाऽवग्रह एव मतिज्ञानं स्यात्, न पुनरीहा-ऽपायादयः, तेषां शब्दोल्लेखसहितत्वातः मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत् कथं श्रुतज्ञानलक्षणस्य नातिव्याप्तिदोषः?, कथं च न मतिज्ञानस्याव्याप्तिप्रसङ्गः । अपरं च, अङ्गा-ऽनङ्गप्रविष्टादिषु "अक्खर सन्नी सम्म साईअं खलु सपज्जवसियं च" इत्यादिषु । च श्रुतभेदेषु मतिज्ञानभेदस्वरूपाणामवग्रहे हादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात् , मतिज्ञानभेदानां चेहा-ऽपायादीनां साभिलापत्वेन श्रुतज्ञानत्वप्राप्तरुभयलक्षणसंकीर्णतादोषश्च स्यात् । अत्रोच्यते यत् तावदुक्तम्- अवग्रह एव मतिज्ञानं स्यात्, न त्वीहादयः, तेषां शब्दोल्लेखसहितत्वात् । तदयुक्तम्, यतो यद्यपीहादयः साभिलापाः, तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात । अथावग्रहादयः श्रूतनिश्रिता एव सिद्धान्ते प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकर्णितशब्दानुसरणमन्तरेण न सङ्गच्छते, अतः कथं न तेषां श्रुतानुसारित्वम् । तदयुक्तम् , पूर्वं श्रुतपरिकर्मितमतेरेवैते समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति, वक्ष्यते च- 'पुव्वं सुयपरिकम्मियमइस्स जं संपर्य सुयाइयं, तं सुयनिस्सिय' इत्यादि । यदपि युक्तितोऽपि चेत्यायुक्तम्, तदपि न समीचीनम् , संकेतकालाद्याकर्णितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणाऽपि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् , न हि पूर्वप्रवृत्तसंकेताः, अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते- एतच्छब्दवाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवरूपं संकेतम् , तथाऽमुकास्मन् ग्रन्थे एतदित्थमभिहितमित्येवं श्रुतग्रन्थं चाऽनुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषणप्रवृत्तेः। यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽमाभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहा-ऽपाय-धारणानां सामस्त्येन मतिज्ञानत्वाद् न मतिज्ञानलक्षणस्याऽव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साभिलापज्ञानविशेषेषु भावाद् न थुतज्ञानलक्षणस्याऽतिव्याप्तिकृता ॥६६॥ दोषः। अपरं चाङ्गा-ऽनङ्गप्रविष्टादिश्रुतभेदेषु मतिपूर्वमेव श्रुतमिति वक्ष्यमाणवचनात् प्रथमं शब्दाद्यवग्रहणकालेऽवग्रहादयः समुपजायन्ते, एते १ ख. घ. छ 'नुसारिणो शा'। २ अक्षरं सज्ञ सम्यक् सादिकं खलु सपर्यवसितं च। ३ पूर्व श्रुतपरिकमितमतेर्यत् सांप्रतं श्रुतातीतम् , तत् श्रुतनिश्रितम् । For Pesond ere
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy