SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ६५ ॥ Jain Education Internat इत्यादि । अत्राह प्रेरकः- यदि नाम यदाऽमा शृणोति तच्छ्रुतमिति श्रुतज्ञानस्य लक्षणमुच्यते हन्त ! तर्हि शब्दमेव शृणोति जीव इति सकलजगत्प्रतीतमेव । ततः किं श्रूयते ?, इत्याह- 'जइ तओ इत्यादि' यदि च सकः स शब्दो ज्ञानं श्रुतरूपम्, 'तो त्ति' ततो नात्मनो जीवस्य भावः परिणामस्तच्छ्रतं प्राप्नोति, शब्दस्य श्रुतत्वेनेष्टत्वात् तस्य च पौगलिकत्वेन मूर्तत्वात्, आत्मनस्त्वमूर्तत्वात् मूर्तस्य चामूर्तपरिणामत्वायोगात्, आत्मनः परिणामथ श्रुतज्ञानमिष्यते तीर्थकरादिभिः इति कथं न विरोधः ? इति भावः ॥ इति गाथार्थः ॥ ९८ ॥ अत्राचार्यः प्रत्युत्तरयति सुयकारणं जओ सो सुर्य च तक्कारणं ति तो तम्मि । कीरइ सुओत्रयारो सुर्य तु परमत्थओ जीवो ॥ ९९ ॥ यतो यस्मात् कारणात् स शब्दो वक्त्राऽभिधीयमानः श्रोतृगतस्य श्रुतज्ञानस्य कारणं निमित्तं भवति, श्रुतं च वक्तगतश्रुतोपयोगरूपं व्याख्यानकरणादौ तस्य वक्त्राऽभिधीयमानस्य शब्दस्य कारणं जायते, इत्यतस्तस्मिन् श्रुतज्ञानस्य कारणभूते कार्यभूते वा शब्दे श्रुतोपचारः क्रियते । ततो न परमार्थतः शब्दः श्रुतम्, किन्तूपचारत इत्यदोषः । परमार्थतस्तर्हि किं श्रुतम् ?, इत्याह-'सुयं त्वित्यादि' परमार्थतस्तु जीवः श्रुतम्, ज्ञान -ज्ञानिनोरनन्यभूतत्वात् । तथा च पूर्वमभिहितम् शृणोतीति श्रुतमात्मैवेति । तस्मात् श्रूयत इति श्रुतमिति कर्मसाधनपक्षे द्रव्यश्रुतमेवाभिधीयते शृणोतीति श्रुतमिति कर्तुसाधनपक्षे तु भावश्रुतमात्मैवः इति न काचिदनात्मभावता श्रुतज्ञानस्य ॥ इति गाक्षार्थः ॥ ९९ ॥ अथ प्रकारान्तरेणापि मति श्रुतयोर्लक्षणभेदमाह 'इंदिय-मणोनिमित्तं जं विण्णाणं सुयानुसारेणं । निययत्युत्तिसमत्थं तं भावसुर्य मई सेसं ॥ १०० ॥ इन्द्रियाणि च स्पर्शनादीनि मनश्च इन्द्रिय-मनांसि तानि निमित्तं यस्य तदिन्द्रियमनोनिमित्तम्, इन्द्रिय-मनोद्वारेण यद् विज्ञानमुपजायत इत्यर्थः । तत् किम् ?, इत्याह- तद् भावश्रुतं श्रुतज्ञानमित्यर्थः । इन्द्रिय-मनोनिमित्तं च मतिज्ञानमपि भवति, अतस्तद्व्यवच्छेदार्थमाह'श्रुतानुसारेणेति' श्रूयत इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च संकेतविषयपरोपदेशरूपः, श्रुतग्रन्थात्मकश्वेह गृह्यते, तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञानम्, नान्यत् । इदमुक्तं भवति- संकेतकालप्रवृत्तं श्रुतग्रन्थसंबन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन १ श्रुतकारणं यतः स श्रुतं च तत्कारणमिति ततस्तस्मिन् क्रियते श्रुतोपचारः श्रुतं तु परमार्थतो जीवः ॥ ९९ ॥ २ इन्द्रिय-मनोनिमित्तं यद् विज्ञानं श्रुतानुसारेण । निजकार्थेक्तिसमर्थं तद् भावश्रुतं मतिः शेषम् ॥ १०० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ ६५ ॥ www.janelbrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy