SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः ॥८ ॥ चार्याः, आहोस्विदन्योऽपि तत्र कश्चिद् विधिरपेक्षणीयः । इति शिष्यवचनमाशङ्कयाऽस्मिन्नेव योगद्वारे तद्दानविधानादि किञ्चिल्लेशतः प्रासङ्गिकमभिधित्सुराह कयपंचनमोक्कारस्स दिन्ति सामाइयाइयं विहिणा । आवासयमायरिया कमेण तो सेसयसुयं पि ॥ ५॥ __व्याख्या- भव्यादिविशेषणविशिष्टस्यापि शिष्यस्य कृतपञ्चनमस्कारस्य चतुर्थ्यर्थे षष्ठी- कृतपञ्चनमस्काराय मङ्गलार्थमुच्चारितपश्चनमस्कृतिमङ्गलायेत्यर्थः। सामायिकादिकमावासकं विधिना प्रशस्त द्रव्य-क्षेत्र-काल-भावरूपेण, प्रशस्तदिगभिमुखव्यवस्थापनादिरूपेण च समयोक्तेन ददत्याचार्याः, न पुनर्योग्यमित्येतावन्मात्रकमेव ज्ञात्वेति भावः। तत ऊर्ध्वमस्मै किं न किश्चिद् ददति ?, इत्याहक्रमेण ततः शेषकमप्याचारादि श्रुतं प्रयच्छन्ति यावच्छूतोदधेः पारम् ।। इति गाथार्थः ॥५॥ आवश्यकानुयोगप्रदानेऽप्ययमेव विधिरित्यावेदयितुमाहतेणेव याऽणुओगं कमेण तेणेव याऽहिगारोऽयं । जेण विणेयहियत्थाय थेरकप्पक्कमो एसो ॥६॥ चकारोऽपिशब्दार्थः, भिन्नक्रमश्चः ततस्तेनैव पञ्चनमस्कारकरणादिना क्रमेणाऽनुयोगमपि सूत्रव्याख्यानरूपम् , ददत्याचार्या इति वर्तते, अनयोश्च सूत्रप्रदानक्रमा-ऽनुयोगप्रदानक्रमयोर्मध्ये तेनैव प्रस्तुतगाथापक्रान्तेनाऽनुयोगप्रदानक्रमेणाध्यमस्मदभिमतोऽधिकारः, अनुयोगस्यैवेह प्रस्तुतत्वात् , इति भावः । कुतः पुनरिहानुयोगदानक्रमेणैवाधिकारः, इत्याह- येन कारणेन विनेयहितार्थ शिष्यवर्गस्योत्तरोत्तरगुणप्राप्तिमपेक्ष्येत्यर्थः, स्थविराणां गच्छवासिनां साधूनां योऽसौ कल्पः समाचारविशेषस्तस्यैषोऽनन्तरगाथावक्ष्यमाणलक्षणः क्रमः परिपाटीरूपः, तेन कारणेनाऽनुयोगदानक्रमेणैवेहाधिकारोऽयमिति ॥ ६॥ कः पुनरसौ स्थविरकल्पक्रमः ? इत्याहपव्वज्जा-सिक्खावयम-ऽत्थग्गहणं च अनिअओ वासो । निप्फत्ती य विहारो सामायारीठिई चेव ॥ ७॥ इह स्थविराणामयं क्रमो यदुत-प्रथमं तावद् योग्याय विनीतशिष्याय विधिवदापिताऽऽलोचनाय प्रशस्तषु द्रव्यादिषु स्वयं , कृतपञ्चनमस्काराय ददति सामायिकादिकं विधिना । आवासकमाचार्याः क्रमेण ततः शेषकश्रुतमपि ॥ ५॥ २ तेनैव चानुयोर्ग क्रमेण तेनैव चाऽधिकारोऽयम् । येन विनयहितार्थ स्थविरकल्पक्रम एषः ॥६॥ । प्रवज्या-शिक्षापदम-ऽर्थग्रहणं चानियतो वासः । निष्पत्ति विहारः सामाचारीस्थितित्रैव ॥ ७॥ TOTSACROSPIPEPRESS STORIES PRASPASPASSAGESARAS ॥८॥ T Jan Education Internat For Personal and Private Use Only TAwww.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy