SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ९ ॥ Jain Educations Internati गुणसुस्थितेन गुरुणा विधिनैव मत्रज्या प्रदातव्या । ततः शिक्षापदमिति शिक्षायाः पदं स्थानं शिक्षापदम्, शिक्षेव वा पदं स्थानं शिक्षापदम् विधिना प्रत्रजितस्य शिष्यस्य ततः शिक्षाऽधिकारो भवतीत्यर्थः । सा च शिक्षा द्विविधा ग्रहणशिक्षा, आसेवनाशिक्षा च । तत्र द्वादश वर्षाणि यावत् सूत्रं त्वयाऽध्येतव्यमित्युपदेशो ग्रहणशिक्षा, आसेवनाशिक्षा तु प्रत्युपेक्षणादिक्रियोपदेशः । आह च" सा पुण दुविहा सिक्खा गहणे आसेवणे य नायव्या । गहणे सुत्ताहिज्क्षण आसेवण तिप्पकप्पाई " ॥ १ ॥ अन्ये तु - शिक्षाशब्दाद् व्रतमिति पदं पृथक् कृत्वा व्रतमिति कोऽर्थः १ - शिक्षाऽनन्तरं रात्रिभोजनविरमणषष्ठेषु पञ्चसु महात्रतेधूपस्थाप्यते शिष्यः, इत्येतदपि द्वितीयं व्याख्यानं कुर्वन्ति । एतच्च कल्पचूर्ण्यं चिरन्तनटीकायां च न दृष्टम्, इत्यस्माभिरुपेक्षितम् । ततः सूत्रेऽधीते यद् विनेयः कार्यते, तदाह- 'अत्थरगहणं च त्ति' द्वादश वर्षाण्यधीतसूत्रः सन्नसावर्थग्रहणं कार्यते तस्य पूर्वाधीतसूत्रस्य द्वादश वर्षाणि यावदेषोऽर्थं ग्राह्यत इत्यर्थः । यथा हि हलारघट्टगन्त्र्यादेर्मुक्तो बुभुक्षितो बलीवर्दः प्रथमं तावच्छोभनमशोभनं वा तृणादिकमास्वादमनवगच्छन्नपि सर्वमभ्यवहरति पश्चाच्च रोमन्थावस्थायां तदास्वादमवगच्छति एवं विनेयोऽर्थमनवबुध्यमानोऽपि द्वादश वर्षाणि सर्व सूत्रमधीते, अर्थावगमाभावे च तत् तस्याऽनास्वादं भवति; अर्थग्रहणावस्थायां तु तदवगमात् सुस्वादमाप्यायकं च 'जायते, अतोऽधीतसूत्रेण द्वादश वर्षाण्यवश्यमर्थः श्रोतव्यः । यथा वा कृषीवलः शाल्यादिधान्यं प्रथमं वपति, ततः पालयति, लुनाति, मलति, पुनीते, गृहमानयति, पश्चात्तु निराकुलचित्तस्तदुपभोगं करोति, तदभावे वपनादिपरिश्रमस्य निष्फलत्वमसङ्गात् ; एवं शिष्योऽपि सूत्रमधीत्य यदि तदर्थं न शृणुयात्, तदा तदध्ययनप्रयासो विफल एव स्यात्; तस्मात् सूत्राध्ययनानन्तरमवश्यमेव द्वादश वर्षाणि तदर्थः श्रोतव्यः । तस्माद् यत एवं स्थविरकल्पक्रमो यदुत प्रथमं प्रव्रज्या, ततः सूत्राध्ययनम्, ततोऽप्यर्थग्रहणमितिः अतोऽनुयोगप्रदानक्रमेणैवेहाऽधिकार इत्येवं प्रस्तुतमभिसंबध्यते । सूत्राध्ययनानन्तरभावी हि तदर्थव्याख्यानरूपः स्थविरकल्पक्रमदृष्टोऽनुयोग एवावश्यकस्य शास्त्रकृता वक्तुमारब्धः, अतः सूत्राध्ययनकालस्यातिक्रान्तत्वेनेह विवक्षितत्वादनुयोगस्यैवाऽभिधित्सितस्वात् तत्पदानक्रमेणैवाधिकार इति भावः । एतावच्चाऽस्यां गाथायां प्रकृतोपयोगि । यत्पुनरन्यद् व्याख्यास्यते- 'अनिअओ वासो निष्फती य विहारो' इत्यादि, तत् प्रासङ्गिकमित्यवगन्तव्यम् । तत्र 'अनिअओ वासो त्ति' ततोऽस्य गृहीतसूत्रार्थस्य शिष्यस्याऽनियतो वासः क्रियते, ग्रामनगरसंनिवेशादिष्वनियतनिवासेनैष गृहीतमूत्रार्थः शिष्यो यद्याचार्यपद योग्यः, तदा जघन्यतोऽपि सहायद्वयं दत्त्वाऽऽत्मतृ १ क. 'गुगस्वस्थितेन' ख. ग. 'गुणस्थितेन' | २ सा पुनद्विविधा शिक्षा ग्रहणमासेवनं च ज्ञातव्ये ग्रहणं सूत्राध्ययनमासेवनं तृप्रकल्पादि ॥ १ ॥ For Personal and Private Use Only ३ क. ख. ग. ततो । बृहद्वृत्तिः। ॥ ९ ॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy