________________
SPIRPRISPAPERS एनवार-दरGATGA
RS
HARASHARANG
पसमाही
तीयो द्वादश वर्षाणि यावद् नानादेशदर्शनं नियमेन कार्यत इत्यर्थः, आचार्यपदानहस्य त्वनियमः । आचार्यपदार्थोऽपि किमिति देशदर्शनं कार्यते ? इति चेत् । उच्यते- स हि नानादेशेषु पर्यटस्तीर्थकराणां जन्मादिभूमीः पश्यति; ताश्च दृष्ट्रात जाताः, इह दीक्षा प्रतिपन्नाः, अस्मिंश्च देशे निर्वृता भगवन्तः, इत्यायध्यवसायतो हर्षातिरेकात् तस्य सम्यक्त्वस्थैर्य भवति, अन्येषां च स पश्चात् तस्थिरतामुत्पादयति, श्रुताद्यतिशायिनश्चाचार्यादीन् नानास्थानेषु पश्यतः सूत्रार्थेषु सामाचार्या चाऽस्य विशेषोपलम्भो भवति, नानादेशभाषासमाचारांश्चैष बुध्यते, ततश्च तत्तद्देशजानामपि विनेयानां तत्तद्भाषया धर्म कथयति, ततः प्रतिबोध्य तान् प्रव्राजयति, पूर्वप्रवजितास्तु तदुपसंपदं प्रतिपद्यन्ते, निःशेषास्मद्भाषासमाचारकुशलोऽयमिति शिष्याणां तदुपरि प्रीतियोगश्च जायते, इत्यादिगुणदर्शनादनियतवासः । 'निष्फत्ती य त्ति' एवं चानियतवासेन द्वादश वर्षाणि पर्यटतस्तस्याऽचार्यपदाहशिष्यत्वेनाऽऽत्मनो निष्पत्तिर्भवति, अन्येषां च प्रभूतशिष्याणां तदन्तिके निष्पत्तिर्जायत इति । 'विहारो त्ति' एवं शिष्यत्वेन निष्पत्ता, मरिपदे च प्राप्ते, स्वपरोपकारकरणेन दीर्घ च पर्याये परिपालिते, अन्यस्मिंश्च योग्यशिष्ये आचार्यपदे व्यवस्थापिते, ततोऽनन्तरं विहरणं विशेषेण भगवदभिहितमार्गे पराक्रमणं विहारो विशेषानुष्ठानरूपोऽनेन कर्तव्यः । स च द्विविधः- भक्तपरिशे-गिनी-पादपोपगमनलक्षणमभ्युद्यतमरणम् , जिनकल्प-परिहारविशुद्धिककल्प-यथालन्दिककल्पप्रतिपत्तिर्वा । अस्मिंश्च द्विविधेऽपि विहारे सामाचारी ज्ञात्वाऽनुष्ठेया । सा चाऽऽधे मरणलक्षणे विहारे
"निष्फाइआ य सीसा सउणी जह अण्डयं पयत्तेण । बारससंवच्छरियं सो संलेहं अहं करेइ ॥ १ ॥ चत्तारि विचित्ताई विगईनिज्जूहिआई चत्तारि । संवच्छरे उ दोन्नि उ एगन्तरियं च आयामं ॥२॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्ने वि य छम्मासे होइ विगिढ़ तबो कम्मं ॥ ३ ॥
वासं कोडिसहि आयामं कटु आणुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ "॥ ४ ॥ इत्यादिका ज्ञातव्या । द्वितीये तु विहारे जिनकल्पादिप्रतिपत्तौ सामाचारी निर्दिश्यते-तत्र जिनकल्पादि प्रतिपित्सुनाऽऽदावेव पूर्वापररात्रकाले तावदिदं चिन्तनीयम्-विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितम् , शिष्यायुपकारतः परहितं च, निष्पन्नाश्चेदानी मम
निष्पादिताच शिष्याः शकुनी यथाऽण्डकं प्रयनेन । द्वादशसांवत्सरिकं स संलेखमथ करोति ॥१॥ चश्वारि विचित्राणि विकृतिनियूहितानि चत्वारि (वर्षाणि)। संवत्सरौ तु द्वौ त्वेकान्तरितं चाऽऽयामम् ॥ २॥ नासिविकृष्ट च तपः पण्मासान् परिमितं चाऽऽयामम् । अन्यानपि च षण्मासान् भवति विकृष्टं तपः कर्म ॥३॥ वर्षे कोढिसहितं आयामं कृत्वाऽऽनुपूर्ध्या । गिरिकन्दरां तु गत्वा पादपगमनमथ करोति ॥ ४ ॥
कडाककककराकर
१०॥
Jain Educatoria internatio
For Personal and Private Use Only