________________
विशे०
वृहद्धत्तिः ।
CHNDERBAR
गच्छपरिपालनक्षमाः शिष्याः, ततो विशेषेणैव सांप्रतं ममाऽऽत्महितमनुष्ठातुमुचितमिति । विचिन्त्य चेदं सति परिज्ञाने आत्मीयमायुःशेष स्वयमेव पर्यालोचयति, तदभावेऽन्यमतिशयिनमाचार्यादिकं पृच्छतिः तत्र स्तोके खायुषि भक्तपरिज्ञादीनामन्यतरद् मरणं प्रति-
पद्यते । अथ दीर्घमायुः, केवलं जङ्घारलपरिक्षीणः, तदा वृद्धवासं स्वीकुरुतेः पुष्टायां तु शक्तौ जिनकल्पादिप्रतिपत्तिमुररीकरोति । तत्र ॥११॥ EPH जिनकल्प प्रतिपित्सुना प्रथममेव तावत् पञ्चभिस्तुलनाभिरात्मा तोलनीयः, तद्यथा
___तैवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवजओ" ॥१॥ तुलना, भावना, परिकर्म चेत्येकार्थानि । तत्राऽऽचार्यो-पाध्याय-प्रवर्तक-स्थविर-गणावच्छेदकलक्षणाः प्रायः पञ्चैव जनाः प्रशस्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवाऽऽत्मानं भावयन्ति । अप्रशस्तास्तु-कन्दर्प-देवकिल्विषका-ऽऽभियोगिका
सुर-संमोहस्वरूपाः पञ्च भावनाः सर्वथा दूरतः परित्यजन्ति । तत्र तपसाऽऽत्मानं भावयंस्तथा बुभुक्षां पराजयते यथा देवाशुपसर्गादिनाऽनेषणादिकरणतो यदि षण्यासान् यावदाहारं न लभते, तथापि न बाध्यते । सत्त्वभावनया तु भयं पराजयते, तत्र भयजयार्थ रात्रौ सुप्तेषु शेषसाधुषूपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सत्त्वभावना भवति, द्वितीयादिकास्तूपाश्रयबाह्यादिप्रदेशेषु । आह च
"पंढमा उबस्सयम्मि बीया बाहिं तइया चउक्कम्मि । सुष्णहरम्मि चउत्थी अह पंचमिया मसाणम्मि" ॥१॥ सूत्रभावनया तु स्वनामवत् सूत्रं परिचितं तथा करोति यथा रात्री दिवा चोच्छासप्राणस्तोकलवमुहूर्तादिकं कालं मूत्रपरावर्तनानुसारेणैव सर्व सम्यगवबुध्यते । एकत्वभावनया चाऽऽत्मानं भावयन् सङ्घाटिकसाध्वादिना सह पूर्वप्रवृत्तानालाप-सूत्रार्थ-सुखदुःखादिप्रश्न-मिथःकथादिव्यतिकरान् सर्वानपि परिहरति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पश्चाद् देहो-पध्यादिभ्योऽपि भिन्नमात्मानं पश्यन् सर्वथा तेष्वपि निरभिष्वङ्गो भवति । बलभावनायां बलं द्विविधम् - शारीरम् , मानसधृतिबलं च । तत्र शारीरमपि बलं जिनकल्पार्हस्य शेषजॅनातिशायिकमेष्टव्यम् , तपःप्रभृतिभिस्त्वपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति, तथापि धृतिबलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसगर्ने बाध्यते । एताभिः पञ्चभिर्भावनाभिर्भाविताऽऽत्मा जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नाहारादि परिकर्म प्रथममेव करोति, तत्राहारे तृतीयपौरुष्यामवगाढायां वल्ल-चणकादिकमन्तं प्रान्तं रूक्षं च
तपसा सवेन सूत्रेणकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥१॥ २ प्रथमा उपाश्रये नितीया बहिस्तृतीया चतुष्के । शून्पगृहे चतुर्थी अध पञ्चमी श्मशाने ॥1॥ 1ग, 'मुत्रअगारे'। ४ ख. घ. छ. 'मनोधृतियलम्'। ५ क. ग. 'जनातिशायक' ।
www.jainelibrary.org
Jan Eduinema
For Personal and Private Use Only