________________
विशे० ॥ १२ ॥
"संसट्ठमसंसट्ठा उद्धड तह होइ अप्पलेवा य । उम्गहिआ पग्गहिआ उज्झिअधम्मा य.सत्तमिया" ॥१॥ एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ज शेषपञ्चानां मध्यादन्यतरैषणाव्याभिग्रहेणाऽऽहारं गृह्णाति- एकया भक्तम् , अपरया त्वेषणया पानकमिति । एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवाऽऽत्मानं परिकर्म्य ततो जिनकल्पं प्रतिपित्सुः सङ्घ मीलयति, तदभावे स्वगणं तावदवश्यमाहयते । ततस्तीर्थकरसमीपे, तदभावे गणधरसंनिधाने, तदसत्त्वे चतुर्दशपूर्वधरान्तिके, तदसंभवे दशपूर्वधराभ्यणे, तदलाभे तु वटा-ऽश्वत्था-ऽशोकक्षादीनामासत्तौ जिनकल्पमभ्युपगच्छति । निजपदव्यवस्थापितं मूरिम् , सबालवृद्धं गच्छम् , विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा
"जैइ किंचि पमाएणं न सुटु मे वट्टि मए पुच्विं । तं भे! खामेमि अहं निस्सल्लो निक्कसाओ य ॥१॥ आणंदमंसुपायं कुणमाणा ते वि भूमिगयसीसा । खामंति ते जहरिहं जहारिहं खामिआ तेणं ॥२॥
खातस्स गुणा खलु निस्सल्लयविणयदीवणा मग्गे । लाघवियं एगत्तं अप्पडिबन्धो अ जिणकप्पो" ॥ ३ ॥ निजपदस्थापितमूरिप्रभृतीनामनुशास्ति प्रयच्छति, तद्यथा
“पाँलेज सगणमेयं अप्पडिबद्धो य होज सव्वत्थ । ऎसो हु परंपरओ तुम पि अंते कुणसु एवं" ॥ १॥
नमसमरसत
१ संसृष्टासंसृष्टे उद्धता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥१॥ संसृष्टाभ्यां तत्खरष्टिताभ्यां हस्तपात्राभ्यां भिक्षा संसृष्टा, असंसृष्टाभ्यां तु ताभ्यामसंसृष्टा, स्थाल्यादिभ्यः स्वार्थ भोजनाय उत्क्षिप्ता उद्धता, निलेप पृथुकादि तत्स्वरूपाऽल्पलेपा, भोजनकाले शरावाद्याहितभोज्यवस्तुमध्यादुत्पाटिता, भोजनार्थ करोपात्तभोज्यमध्याद् दातुमिष्टा प्रगृहीता, अन्याऽनभिलव्यमाणा परित्यव्यमानभक्ताद्यन्नरूपा उजिझतधर्मा इति।
२ यदि किञ्चित् प्रमादेन न सुष्टु युष्माकं वर्तितं मया पूर्वम् । तं भगवन् ! क्षमयाम्यहं निःशल्यो निष्कषायश्च ॥ १ ॥
आनन्दाथुपातं कुर्वाणास्तेऽपि (साधवः) भूमिगतः । क्षमयन्ति ते यथाई यथाई क्षमितास्तेन ॥२॥ क्षमयतश्च गुणाः खलु निःशल्यकविनवदीपना मागें । लाघवमेकत्वमप्रतिबन्धन जिनकल्पः ॥३॥
३ पालयेः खगणमेतमप्रतिबद्ध भवेः सर्वत्र । एष खलु परम्परकस्त्वमप्यन्ते कुयों एवम् ॥१॥ ४ "एष च परम्परकः शिष्याचार्यक्रमो यदव्यवच्छित्तिकारकं शिष्यं निष्पाद्य शक्तौ सत्यामभ्युद्यतविहारः प्रतिपत्तव्यः, खमप्यन्ते शिष्यनिष्पादनादिकार्यपवसाने एवमेव कुर्याः" इति बृहत्कल्पभाष्यढीकायां श्रीक्षेमकीर्तिसूरिः ।
RRRRESS
॥१२॥
Edutainer
For Personal and Private Use Only
www.jainelibrary.org