SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विशे० ॥७ ॥ For सुतरामवसेयम् , तयोरेकाभिप्रायत्वात् । तस्माद् मोक्षलक्षणं फलमभिवाञ्छताऽऽवश्यकानुयोगेऽवश्यं प्रवर्तितव्यमेव, ततोऽपि ज्ञानक्रियाप्राप्तेः, ताभ्यां च मोक्षफलसिद्धिरिति ॥ _ यदि नामावश्यकानुयोगतो ज्ञान-क्रियाऽवाप्तिः, ताभ्यां च मोक्षसिद्धिः, तथापि किमिति तत्र प्रवर्तितव्यम् , न पुनर्यत्र कुत्रचित्र पष्टितन्त्रादौ ?; इत्याह- कारणात् कार्यसिद्धिः, नाकारणादिति कृत्वा; कारणे हि सुविवेचिते प्रवर्तमानाः प्रेक्षावन्तः समीहितमप्रतिहतं कार्यमासादयन्ति; नाकारणे, अन्यथा तृणादपि हिरण्य-मणि-मौक्तिकाद्यवाप्तेः सर्व विश्वमदरिद्रं स्यात् । कारणं च पारम्पर्येणावश्यकानुयोग एव मोक्षस्य, न पष्टितन्त्रादिकम् , ज्ञान-क्रियाजननद्वारेण तस्य मोक्षसंसाधकत्वात् , इतरस्य तु पारम्पर्येणाऽपि तदसाधकत्वात् ॥ इति गाथार्थः । उक्तं फलद्वारम् ॥३॥ अथ योगद्वारमभिधित्सुराहभेव्वस्स मोक्खमग्गाहिलासिणो ठियगुरूवएसस्स । आईए जोग्गामिणं बाल-गिलाणरस वाऽऽहारं ॥ ४॥ व्याख्या-यदादौ प्रतिज्ञातम्-शिष्यप्रदानेऽस्य योगोऽवसरो वाच्य इति । तत्रह- समस्तद्वादशाङ्ग्यध्ययनकालस्यादौ प्रथममिदं पड़िधमावश्यक योग्पमपदिशन्ति मुनयः, शेषसमग्रश्रतप्रदानकालस्यादी प्रथममेवाऽऽवश्यकमदानस्याऽवसर इति भावः। कस्य पुनरिदमावश्यकं योग्यमादिशन्ति मुनयः ?, इत्याह- भव्यस्य मुक्तिगमनयोग्यस्य जन्तोः। स च कश्चिद् दूरभव्योऽसंजातमोक्षमार्गाभिलापोऽपि भवति, तद्व्यवच्छेदार्थमाह- मोक्षमार्गः सम्यग्ज्ञान-दर्शन-चारित्ररूपस्तमुत्तरोत्तरविशुद्धिरूपमभिलपितुं शीलमस्य स तथा तस्य । अयं चैवंविधोऽपरिणतगुरूपदेशोऽपि स्यात् , तन्निरासार्थमाह-स्थितः कर्तव्यतया परिणतो गुरूपदेशो यस्याऽसौ स्थितगुरूपदेशस्तस्य । किं यथायोग्यमुपदिशन्ति ?, इत्याह- बालग्लानयोरिवाऽऽहारं यथोपदिशन्ति, भिषज इति गम्यते । इदमुक्तं भवतियथाऽऽदौ बालस्य कोमल-मधुरादिकम् , ग्लानस्य च पेया-मुद्ग-यूषादिकं तत्कालोचितमुत्तरोत्तरबलपुष्टयादिहेतुमाहारं योग्य भिषजः समुपदिशन्ति, तथेहापि भव्यादिविशेषणविशिष्टस्य जन्तोरादाविदमेवाऽऽवश्यकमुत्तरोत्तरगुणवृद्धिहेतुभूतं योग्यमुपदिशन्ति तीर्थकरगणधरा इति । आवश्यकस्य चादौ शिष्यप्रदानावसरे प्रतिपादिते तदनुयोगस्याऽसौ प्रतिपादित एव द्रष्टव्यः, तयोरेकत्वस्याऽनन्तरमेवाऽऽख्यातत्वात् ॥ इति गाथार्थः ॥४॥ आह- ननु यस्य भव्यादिविशेषणविशिष्टस्याऽऽदौ योग्यमिदमावश्यकम् , तस्मै योग्यमित्येतावन्मात्रमेव ज्ञात्वा तद् ददत्या 1 भषस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य । आदौ योग्यमिदं बाल-बलानयोरिवाऽऽहारम् ॥ ४ ॥ 88668TOOOOOPPPARAN सरकार-STER ॥ ७॥ 5986000 TOPPERS 1Hemjanelbraryang
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy