________________
विशेषा० ॥१७॥
विशेषः सोऽप्यपेक्षया सामान्यम् , यत्सामान्यं तदप्यपेक्षया विशेष इति व्यवहियते, तथाहि- 'शब्द एवाऽयम्' इत्येवमध्यवसितोऽर्थः पूर्वसामान्यापेक्षया विशेषः, 'शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम्, इत्येवं यावदन्त्यो विशेष इति प्रागप्युक्तम् ।
बृहद्वत्तिः । अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण संतानेन लोके रूढः सामान्य-विशेषव्यवहार औपचारिकावग्रहे सत्येव घटते, नान्यथा, तदनभ्युपगमे हि प्रथमापायानन्तरमीहाऽनुत्थानम् , उत्तरविशेषाग्रहणं चाऽभ्युपगतं भवति, उत्तरविशेषाग्रहणे च प्रथमापाया चसितार्थस्य विशेषत्वमेव, न सामान्यत्वम् ; इति पूर्वोक्तरूपो लोकमतीतः सामान्य-विशेषव्यवहारः समुच्छिद्येत । अथ प्रथमापायानन्तरमभ्युपगम्यत ईहोत्थानम् , उत्तराविशेषग्रहणं च ; तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वम्, यश्च सामान्यग्राहकः, यदनन्तरं चेहादिप्रवृत्तिः सोऽर्थावग्रहः, नैश्चयिकाऽऽद्यर्थावग्रहवत् , इत्युक्तमेव । इति सिद्धो व्यावहारिकार्थावग्रहः, तत्सिद्धौ च सन्तानप्रवृत्त्याऽन्त्यविशेषं यावत् सिद्धः सामान्य-विशेषव्यवहारः ।। इति गाथार्थः ।। २८८ ॥
॥ इति मतिज्ञानाऽऽद्यभेदलक्षणो विभेदोऽप्यवग्रहः समाप्त इति ॥ अथ तद्वितीयभेदलक्षणामीहां व्याचिख्यासुराह
इय सामण्णग्गहणाणंतरमीहा सदत्थवीमंसा । किमिदं सद्दोऽसद्दो को होज व संख-संगाणं? ॥ २८९ ॥
इतिशब्द उपपदर्शने, इत्येवं प्रागुक्तेन प्रकारेण नैश्चयिकाऽर्थावग्रहे यत् सामान्यग्रहणं रूपाद्यव्यावृत्त्याऽव्यक्तवस्तुमात्रग्रहणमुक्तम् , तथा व्यवहारावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणमभिहितम् । तस्मादनन्तरमीहा प्रवर्तते । कथंभूतेयम् ?, इत्याह- सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा विचारणा । केनोल्लेखेन ?, इत्याह- किमिदं वस्तु मया गृहीतं- शब्दः, अशब्दो वा रूप-रसादिरूपः १; इदं च निश्चयार्थावग्रहाऽनन्तरभाविन्या ईहायाः स्वरूपमुक्तम् । अथ व्यवहारार्थावग्रहानन्तरसंभविन्याः स्वरूपमाह-को होज वेत्यादि' वा इत्यथवा, व्यवहारावग्रहेण शब्दे गृहीत इत्थमीहा प्रवर्तते- शाङ्ख-शायोमध्ये कोऽयं भवेत् शब्दः- शाङ्खः, शाङ्गो वा ? इति । ननु 'किं शब्दः, अशब्दो वा ?' इत्यादिकं संशयज्ञानमेव कथमीहा भवितुमर्हति ?।। सत्यम्, किन्तु दिङ्मात्रमेवेदमिह दर्शितम् , परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरः, अन्वयधर्मघटनप्रवृत्तश्चाऽपायाभिमुख एव बोध ईहा द्रष्टव्या, तद्यथा
||१७०॥ इति सामान्यग्रहणानन्तरमीदा सदर्थमीमांसा । किमिदं शब्दोऽशब्दः को भवेद् वा शाख-शााणाम् ? ॥ २८९ ॥
For Personal
Prime Use Only