________________
विशेषा०
बृहद्वत्तिः ।
॥१६९॥
सति; अत्र हि 'शब्दः' इति विशेषविज्ञान युज्यते, सर्वग्रहणास् तदनन्तरमीहादयश्चप्पियन्ते, पूर्वोक्तयुक्तः । ततश्च "से' जहानामए केइ पुरिसे अव्वत्तं सई सुणेजा, तेण सद्दे ति उग्गहिए, न उण जाणइ के वेस सद्दे, तओ ईहं पविसइ, तओ अवार्य गच्छई" इत्या- दि सर्वे सुस्थं भवति । यद्येवम् , अयमेवार्थावग्रहः कस्माद् न गृह्यते, येन सर्वोऽपि विवादः शाम्यति? इति चेत् । नैवम् , 'शब्द एवाऽयम्' इत्याद्यपायरूपोऽयमावग्रहः, अपायश्च सामान्यग्रहणे-हाभ्यामन्तरेण न संभवति, इत्याद्यसकृत् पूर्वमभिहितमेव । इति पाक्तनमेव व्याख्यानं मुख्यम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ।। २८७ ।। व्यावहारिकार्थावग्रहाभ्युपगमे यो गुणस्तं सविशेषमुपदर्शयन्नाह
खिप्पे-यराइभेओपुव्वोइयदोसजालपरिहारो । जुज्जइ संताणेण य सामण्ण-विसेसववहारो ॥ २८८ ॥ क्षिप्रे-तरादिभेदं यत् पूर्वोदितदोषजालं तस्य परिहारो युज्यते 'अस्मिन् व्यावहारिकेऽर्थावग्रहे सति' इति प्रक्रमाद् गम्यते । इदमुक्तं भवति- एकसामयिकनैश्चयिकाऽर्थावग्रहव्याख्यातारं प्रति प्राग् यदुक्तम्- यद्यसावेकसामयिकः, तर्हि कथं क्षिप्र-चिरग्रहणविशेषणमस्योपपद्यते; तथा यद्यसौ सामान्यमात्रग्राहकः, तर्हि बहु-बहुविधादिविशेषणोक्तं विशेषग्रहणं कयं घटते ? ; तथाविग्रहस्य विशेषग्राहकत्वे यत् समयोपयोगबाहुल्यमुक्तम् । इत्यादिकस्य दोषजालस्य परिहारो व्यावहारिकेविग्रहे सति युज्यते, तथाहि-नैश्चयिकावग्रहवादिनेदानीं शक्यमिदं वक्तुं यदुत-क्षिप्रे-तरादिविशेषणानि यौवहारिकावग्रहविषयाण्येतानि,असंख्येयसमयनिष्पन्नत्वेनाऽस्य क्षिप-चिरग्रहणस्य युज्यमानत्वात्, विशेषग्राहकत्वेन बहु-बहुविधादिग्रहणस्याऽपि घटमानकत्वादिति । 'सामण्ण-तयण्णविसेसेहा' इत्यादिना मागभिहितं समयोपयोगबाहुल्यमप्यस्मिन् निरास्पदमेव, सामान्यग्रहणे-हापूर्वकत्वेन, असंख्येयसामयिकत्वेन चैकसमयोपयोगवाहुल्यस्याऽत्राऽसंबध्यमानत्वादिति । ननु नैश्चयिकावग्रहे किं क्षिप्रे-तरादिविशेषणकलापो न घटते, येन व्यावहारिकावग्रहापेक्षःप्रोच्यते । सत्यम् , मुख्यतया व्यवहारावग्रहे एवं घटते, कारणे कार्यधर्मोपचारात् पुनर्निश्चयावग्रहेपि युज्यते, इति प्रागप्युक्तम् , वक्ष्यते च विशिष्टादेव हि कारणात् कार्यस्य वैशिष्टयं युज्यते, अन्यथा त्रिभुवनस्याऽप्यैश्वर्यादिप्रसङ्गः, काष्ठखण्डादेरपि रत्नादिनिचयाचाप्तः, इत्यलं प्रसङ्गेन । प्रकृतमुच्यतेसंतानेन च योऽसौ सामान्य-विशेषव्यवहारो लोके रूढः, सोऽपि 'व्यवहारावग्रहे सति युज्यते' इतीहापि संबध्यते । लोकेऽपि हि यो
तद्यथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् , तेन शब्द इत्यवगृहीतः, न पुनर्जानाति क एप शब्दः, सत ईहां प्रविशति, ततोऽपायं गच्छति । १ ज. 'हाऽर्थान्यु' । ३ क्षिप्रे-तरादिभेदपूर्वोदितदोषजालपरिहारः । युज्यते संतानेन च सामान्यविशेषव्यवहारः ॥ २८८ ॥ ४ गाथा २६७ ।
बERBASTI
॥१६९॥
Poeto solo
ताalarolo
Jan Education internat
For Personal and Private Use Only