SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 3a0 बृहद्वत्तिः । विशेषा० ॥१७१॥ " अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥ १ ॥ इति । एतच्च प्रागुक्तमपि मन्दमतिस्मरणार्थं पुनरप्युक्तम् ॥ इति गाथार्थः ॥२८९ ।। अथ मतिज्ञानतृतीयभेदस्याऽपायस्य स्वरूपमाहमेहुराइगुणत्तणओ संखस्सेव त्ति जं न संगस्स । विण्णाणं सोऽवाओ अणुगम-वइरेगभावाओ ॥२९० ॥ 'मधुर-स्निग्धादिगुणत्वात् शङ्खस्यैवाऽयं शब्दः, न शृङ्गस्य' इत्यादि यद् विशेषविज्ञानम् , सोऽपायो निश्चयज्ञानरूपः । कुतः ?, इत्याह-पुरोवयर्थधर्माणामनुगमभावादस्तित्वनिश्चयसद्भावात् , तत्राविद्यमानार्थधर्माणां तु व्यतिरेकभावाद् नास्तित्वनिश्चयसत्त्वात् । अयं च व्यवहारार्थावग्रहानन्तरभावी अपाय उक्तः, निश्चयावग्रहानन्तरभावी तु खयमपि द्रष्टव्यः तद्यथा-श्रोत्रग्राह्यत्वादिगुणतः 'शब्द एवाऽयं, न रूपादिः' इति । ईहा-ऽपायविषयाश्च विप्रतिपत्तयः प्रागपि निराकृताः, इति नेहोक्ताः ।। इति गाथार्थः ॥ २९० ॥ अथ चतुर्थो मतिज्ञानभेदो धारणा, इयं चाऽविच्युति चासना-स्मृतिभेदात् त्रिधा भवति, अतः सभेदामपि तामाह तैयणंतरं तयत्थाविच्चवणं जो य वासणाजोगो । कालंतरे य जं पुणरणुसरणं धारणा सा उ॥ २९१ ॥ तस्मादपायादनन्तरं तदनन्तरं यत् , तदर्थादविच्यवनम्- उपयोगमाश्रित्याऽभ्रंशः, यश्च वासनाया जीवेन सह योगः संबन्धः, यच्च तस्याऽर्थस्य कालान्तरे पुनरिन्द्रयरुपलब्धस्य, अनुपलब्धस्य वा, एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनस्त्रिविधाऽप्यर्थस्याबधारणरूपा धारणा विज्ञेया ॥ इति गाथाक्षरघटना ॥ ___भावार्थस्त्वयम्- अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगसातत्येन वर्तते, न तु तस्माद् निवर्तते, तावत् तदर्थोपयोगादविच्युति म सा धारणायाः प्रथमभेदो भवति । ततस्तस्याऽर्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते, येन कालान्तरे इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुन्मीलति । सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्त दो भवति । कालान्तरे च वासनावशात् तदर्थस्येन्द्रियरुपलब्धस्य, अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविभवति, सा तृतीयस्तद्भेद इति । एवं त्रिभेदा धारणा विज्ञेया । तुशब्दोऽवग्रहादिभ्यो विशेषद्योतनार्थः । विप्रतिपत्तयस्त्वेतद्विषया १ क. ग. घ. छ. ज. रतिप्रियतमारिस'। २ मधुरादिगुणत्वतः शङ्कस्यैवेति यद् न शृङ्गस्य । विज्ञानं सोऽपायोऽनुगम-व्यतिरेकभावात् ॥ २९ ॥ ३ तदनन्तरं तदर्थाऽविच्यवनं यश्च वासनायोगः । कालान्तरे च यत् पुनरनुस्मरणं धारणा सा तु ॥ २९१ ॥ ४ ज. 'सदास' । ROR ॥१७१॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy