SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥ १७२ ॥ Jain Education Internatio अपि प्रागेव निराकृताः । इति गाथार्थः ॥ २९९ ॥ तदेवं " " से जहानामए केइ पुरिसे अव्वत्तं सद्दं सुणेज्ज " इत्यादिसूत्रानुरोधेन शब्दमाश्रित्याऽवग्रहादयो भाविताः । अथ सूत्रकारेणैव यदुक्तम्- “ एवं एएणं अभिलावेणं अव्वत्तं रूवं रसं गंध फासं " इत्यादि, तच्चैतास निधाय भाष्यकारोऽप्यतिदेशमाहसेसेसु विरूवाइसु विसएसुं होंति रूवलक्खाई । पायं पच्चासन्नत्तणेणमीहाइवत्थूणि ॥ २९२ ॥ यथा शब्दे, एवं शेषेष्वपि रूपादिविषयेषु साक्षादनुक्तान्यपि रूपलक्षाणि कथितानुसारमसरत्यज्ञानां चतुरचेतसां सुज्ञेयानि भवन्ति । कानि १, इत्याह- ईहादीन्याभिनिबोधिकज्ञानस्य भेदवस्तूनि । केन रूपलक्षाणि १, इत्याह- प्रायः प्रत्यासन्नत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेः, तत्राऽगृह्यमाणेन पुरुषादिना सह प्रायो बहुभिर्धर्मैर्यत् प्रत्यासन्नत्वं या प्रत्यासत्तिः सादृश्यमिति यावत्, तेनेहादीनि ज्ञेयानि, न पुनरत्यन्तवैलक्षण्ये स्थाण्वादेरुष्ट्रादिना सहेत्यर्थः, इदमुक्तं भवति- अवग्रहे तावत् सामान्यमात्रग्राहकत्वाद् द्वितीयवस्त्वपेक्षाऽपि न विद्यते, ईहा पुनरुभयवस्त्ववलम्बिनी, तत्र पुरोदृश्यमानस्य वस्तुनो यत् प्रतिपक्षभूतं वस्तु तत्प्रायो बहुभिर्धर्मैः प्रत्यासं ग्राह्यम्, न पुनरत्यन्तविलक्षणम् ; पुरो हि मन्दमन्दप्रकाशे दूराद् दृश्यमाने स्थाण्वादी 'किमयं स्थाणुः, पुरुषो वा' इत्येवमेवेहा प्रवर्तते, ऊर्ध्वस्थानारोह - परिणाहतुल्यतादिभिः मायो बहुभिर्धर्मैः पुरुषस्य स्थाणुप्रत्यासन्नत्वादिति । किमयं स्थाणुः, उष्ट्रो वा ?” इत्येवं तु न प्रवर्तते, उष्ट्रस्य स्थाण्वपेक्षया प्रायोऽत्यन्तविलक्षणत्वात् । अत एव सामान्यमात्रग्राह्यवग्रहोत्रादौ न कृतः, किन्तु 'ईहादीनि' इत्येवमेवोक्तम् उभयवस्त्ववलम्बित्वेनेहाया एव 'पायं पच्चासन्नत्तणेण' इतिविशेषणस्य सफलत्वात् । अपायस्याऽपि 'स्थाणुरेवाऽयं, न पुरुषः' इत्यादिरूपेण प्रवृत्तेः किञ्चिद् विशेषणस्य सफलत्वादादिशब्दोऽप्यविरुद्धः ॥ इति गाथार्थः ॥ ॥ २९२ ॥ इह 'किं शब्दः, अशब्दो वा ?" इति श्रोत्रेन्द्रियस्य प्रत्यासन्नवस्तूपदर्शनं कृतमेव । अथवशेषचक्षुरादीन्द्रियाणां विषयभूतानि प्रत्यासन्नवस्तूनि क्रमेण प्रदर्शयति थाणु-पुरिसाइ कुट्टू- पलाइ संभियकरिल्ल-मंसाई । सप्पु - प्पलनालाइव समाणरूवाइविसयाई ॥ २९३ ॥ 'ईहादिवस्तूनि रूपलक्षाणि' इत्युक्तम् । कथंभूतानि सन्ति पुनस्तानि रूपलक्षाणि ?, इत्याह- समानः समानधर्मा रूप १ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । २ एवमेतेनाऽभिलापेनाऽव्यक्तं रूपं रसं गन्धं स्पर्शम् । ३ शेषेण्यपि रूपादिषु विषयेषु भवन्ति रूपलक्षाणि । प्रायः प्रत्यासन्नत्वेनेहादिवस्तूनि ॥ २९२ ॥ ४. 'लक्ष्याणि' । ५ स्थाणुः पुरुषादिः कुष्टापलादि-संभूतकरौल-मांसादि । सर्पों पढनालादिवत् समानरूपादिविषयाणि ॥ २९३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ १७२ ॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy